F परशुरामस्तुती - parashuram stuti lyrics - bhagwat kathanak
परशुरामस्तुती - parashuram stuti lyrics

bhagwat katha sikhe

परशुरामस्तुती - parashuram stuti lyrics

परशुरामस्तुती - parashuram stuti lyrics

परशुराम स्तुती 

परशुरामस्तुती - parashuram stuti lyrics


श्री गणेशाय नमः ।

कुलाचला यस्य महीं द्विजेभ्यः प्रयच्छतः सोमदृषत्त्वमापुः ।

बभूवुरुत्सर्गजलं समुद्राः स रैणुकेयः श्रियमातनीतु ॥ १॥


नाशिष्यः किमभूद्भवः किपभवन्नापुत्रिणी रेणुका

नाभूद्विश्वमकार्मुकं किमिति यः प्रीणातु रामत्रपा ।

विप्राणां प्रतिमन्दिरं मणिगणोन्मिश्राणि दण्डाहतेर्नांब्धीनो

स मया यमोऽर्पि महिषेणाम्भांसि नोद्वाहितः ॥ २॥


पायाद्वो यमदग्निवंशतिलको वीरव्रतालङ्कृतो

रामो नाम मुनीश्वरो नृपवधे भास्वत्कुठारायुधः ।

येनाशेषहताहिताङ्गरुधिरैः सन्तर्पिताः पूर्वजा

भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तकारीकृता ॥ ३॥


द्वारे कल्पतरुं गृहे सुरगवीं चिन्तामणीनङ्गदे पीयूषं

सरसीषु विप्रवदने विद्याश्चतस्रो दश ।

एव कर्तुमयं तपस्यति भृगोर्वंशावतंसो मुनिः

पायाद्वोऽखिलराजकक्षयकरो भूदेवभूषामणिः ॥ ४॥


॥ इति परशुराममस्तुतिः ॥

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3