Visnu pratah smaran mantra
श्री विष्णुप्रातः स्मरणस्तोत्रम्
प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै
नारायणं गरुडवाहनमब्जनाभम् ।
ग्राहाभिभूतवरवारणमुक्तिहेतुं
चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥१॥
प्रातर्नमामि मनसा वचसा च मूर्ध्ना
पादारविन्दयुगलं परमस्य पुंसः।
नारायणस्य नरकार्णवतारणस्य
पारायणप्रवणविप्रपरायणस्य॥२॥
प्रातर्भजामि भजतामभयंकर तं
प्राक्सर्वजन्मकृतपापभयापहत्यै
यो ग्राहवक्त्रपतिताघ्रिगजेन्द्रघोर-
शोकप्रणाशनकरो धृतशङ्खचक्रः ॥३॥
श्लोकत्रयमिदं पुण्यं प्रातः प्रातः पठेन्नरः।
लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः॥४॥
Visnu pratah smaran mantra
श्री विष्णुप्रातः स्मरणस्तोत्रम्