adharam madhuram lyrics in sanskrit / मधुराष्टक
मधुराष्टक
अधरं मधुरं
वदनं मधुरं नयनं मधुरं हसितं मधुरं ।
हृदयं
मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥1॥
वचनं मधुरं
चरितं मधुरं वसनं मधुरं वलितं मधुरं ।
चलितं
मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ॥2॥
वेणुर्मधुरो
रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं
मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ॥3॥
गीतं मधुरं
पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं ।
रूपं
मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं ॥4॥
करणं मधुरं
तरणं मधुरं हरणं मधुरं रमणं मधुरं ।
वमितं
मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं ॥5॥
गुञ्जा मधुरा
माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं
मधुरं कमलं मधुरं मधुराधिपते रखिलं मधुरं ॥6॥
गोपी मधुरा
लीला मधुरा युक्तं मधुरं मुक्तं मधुरं।
दृष्टं
मधुरं सृष्टं मधुरं मधुराधिपते रखिलं मधुरं ॥7॥
गोपा मधुरा
गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं
मधुरं फलितं मधुरं मधुराधिपते रखिलं मधुरं ॥8॥