द्वादशज्योतिर्लिङ्गानि dwadash jyotirlinga stotram lyrics
द्वादशज्योतिर्लिङ्गानि
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं
चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं
प्रपद्ये ॥1
श्रीशैलशृङ्गे विबुधातिसङ्गे
तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि
संसारसमुद्रसेतुम् ॥2
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च
सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे
महाकालमहासुरेशम् ॥3
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय
।
सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं
शिवमेकमीडे ॥4
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं
गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं
नमामि ॥5
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं
विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं
प्रपद्ये ॥6
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं
सततं मुनीन्द्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं
शिवमेकमीडे ॥7
सह्याद्रिशीर्षे विमले वसन्तं
गोदावरितीरपवित्रदेशे ।
यद्धर्शनात्पातकमाशु नाशं प्रयाति तं
त्र्यम्बकमीशमीडे ॥8
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं
विशिखैरसंख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं
नियतं नमामि ॥9
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं
पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं
नमामि ॥10
सानन्दमानन्दवने वसन्तमानन्दकन्दं
हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं
प्रपद्ये ॥11
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च
जगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम्
प्रपद्ये ॥12
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां
प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं
तदालोक्य निजं भजेच्च ॥13
॥ इति द्वादश ज्योतिर्लिङ्गस्तोत्रं
संपूर्णम् ॥