वैदिक मंगलाचरण vaidik manglacharan lyrics
अथ मंगलाचरणम्
ॐ गणनान्त्वा गणपति गुंग हवामहे प्रियाणान्त्वा प्रियपति गुंग हवामहे निधीनान्त्वा निधिपति गुंग हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ।। १ ।।
ॐ आयं गौः पृश्न्निरक्रमीदसदनमातरं पुरः । पितरं च प्प्रयन्त्स्वः ।।२।।
ॐ सूर्यरश्मिर्हरिकेशः पुरस्तात् सविता ज्योतिरुदयाँ २ अजस्त्रम् । तस्य पूषा प्रसवे यातिविद्वान् संपश्यन्विश्वा भुवनानि गोपाः ।।३।।
ॐ नमः शम्भवाय च मयोभवाय च नमः । शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ।।४।
ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पासुरे स्वाहा । । ५ । ।
(इति मंगलाचरणम् ।)