चतुःश्लोकीभागवतम् - chatuh shloki bhagwat pravachan

  चतुःश्लोकीभागवतम् 

चतुःश्लोकीभागवतम् - chatuh shloki bhagwat pravachan

श्रीभगवानुवाच ।

ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् ।

सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ १॥


यावानहं यथाभावो यद्रूपगुणकर्मकः ।

तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥ २॥


अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम् ।

पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३॥


ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।

तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः ॥ ४॥


यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।

प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ५॥


एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः ।

अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ ६॥


एतन्मतं समातिष्ठ परमेण समाधिना ।

भवान्कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ ७॥


॥ इति श्रीमद्भागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां वैयसिक्यां द्वितीयस्कन्धे भगवद्ब्रह्मसंवादे चतुःश्लोकीभागवतं समाप्तम् ॥


0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close