श्रीगोपालसहस्रनामस्तोत्रम् - gopal sahastranaam stotram sanskrit lyrics

 श्रीगोपालसहस्रनामस्तोत्रम् 

श्रीगोपालसहस्रनामस्तोत्रम् - gopal sahastranaam stotram sanskrit lyrics

पार्वत्युवाच-

कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम् ।

ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ १॥


त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः ।

नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥ २॥


आश्चर्यमिदमाख्यानं जायते मयि शङ्कर ।

तत्प्राणेश महाप्राज्ञ संशयं छिन्धि मे प्रभो ॥ ३॥


श्रीमहादेव उवाच-

धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे ।

रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ ४॥


स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ।

गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ ५॥


दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् ।

इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥ ६॥


धनरत्नौघमाणिक्यं तुरङ्गं च गजादिकम् ।

ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ ७॥


तत्तेऽहं सम्प्रवक्ष्यामि श‍ृणुष्वावहिता प्रिये ।

योऽसौ निरञ्जनो देवः चित्स्वरूपी जनार्दनः ॥ ८॥


संसारसागरोत्तारकारणाय नृणाम् सदा ।

श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ ९॥


ततो लोका महामूढा विष्णुभक्तिविवर्जिताः ।

निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥ १०॥


निरञ्जनो निराकारो भक्तानां प्रीतिकामदः ।

वृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥ ११॥


मुरलीवादनाधारी राधायै प्रीतिमावहन् ।

अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ १२॥


श्रीकृष्णचन्द्रो भगवान् नन्दगोपवरोद्यतः ।

धरणीरूपिणीमातृयशोदानन्ददायकः ॥ १३॥


द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः ।

ब्रह्मणाऽभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥ १४॥


जातोऽवन्यां मुकुन्दोऽपि मुरलोवेदरेचिका ।

तया सार्द्धं वचः कृत्वा ततो जातो महीतले ॥ १५॥


संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् ।

एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम् ॥ १६॥


गौरतेजो विना यस्तु श्यामतेजस्समर्चयेत् ।

जपेद्वा ध्यायते वापि स भवेत् पातकी शिवे ॥ १७॥


स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः ।

एतैर्दोषैर्विलिप्येत तेजोभेदान्महीश्वरि ॥ १८॥


तस्माज्ज्योतिरभूद् द्वेधा राधामाधवरूपकम् ।

तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥ १९॥


दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले ।

ततः पृष्टवती राधा सन्देहभेदमात्मनः ॥ २०॥


निरञ्जनात्समुत्पन्नं मयाऽधीतं जगन्मयि ।

श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ २१॥


ततो नारदतस्सर्वे विरला वैष्णवा जनाः ।

कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥ २२॥


शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि ।

ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ २३॥


पाठ करने की विधि

ॐ अस्य श्रीगोपालसहस्रनामस्तोत्रमहामन्त्रस्य श्रीनारद ऋषिः ।

अनुष्टुप् छन्दः । श्रीगोपालो देवता । कामो बीजम् । माया शक्तिः ।

चन्द्रः कीलकम् श्रीकृष्णचन्द्र भक्तिरूपफलप्राप्तये

श्रीगोपालसहस्रनामस्तोत्रजपे विनियोगः ।

या इसतरह करें पाठ

ॐ ऐं क्लीं बीजम् । श्रीं ह्रीं शक्तिः ।

श्रीवृन्दावननिवासः कीलकम् ।

श्रीराधाप्रियपरब्रह्मेति मन्त्रः ।

धर्मादिचतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥


अथ करादिन्यासः

ॐ क्लां अङ्गुष्ठाभ्यां नमः ।

ॐ क्लीं तर्जनीभ्यां नमः ॥


ॐ क्लूं मध्यमाभ्यां नमः ॥


ॐ क्लैं अनामिकाभ्यां नमः ॥


ॐ क्लौं कनिष्टिकाभ्यां नमः ॥


ॐ क्लः करतलकरपृष्ठाभ्यां नमः ॥


अथ हृदयादिन्यासः

ॐ क्लां हृदयाय नमः ।

ॐ क्लीं शिरसे स्वाहा ॥


ॐ क्लूं शिखायै वषट् ॥


ॐ क्लैं कवचाय हुं ॥


ॐ क्लौं नेत्रत्रयाय वौषट् ॥


ॐ क्लः अस्त्राय फट् ॥


अथ ध्यानम्


कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं

नासाग्रेवरमौक्तिकं करतले वेणुं करे कङ्कणम् ॥


सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलिम्

गोपस्त्रीपरिवेष्टितो विजयते गोपालचूड़ामणिः ॥ १॥


फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं

श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ॥


गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं

गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥ २॥


सहस्रनाम स्तोत्र आरम्भ-


ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः ।

श्रीगोपालो महीपालो सर्ववेदान्तपारगः ॥ १॥  var  सर्ववेदाङ्गपारगः

कृष्णः कमलपत्राक्षः पुण्डरीकः सनातनः ।  var  धरणीपालकोधन्यः

गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः ॥ २॥


आदिकर्ता महाकर्ता महाकालः प्रतापवान् ।

जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥ ३॥


मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् ।

नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥ ४॥


गोकुलेन्द्रो महीचन्द्रः शर्वरीप्रियकारकः ।

कमलामुखलोलाक्षः पुण्डरीकः शुभावहः ॥ ५॥


दुर्वासाः कपिलो भौमः सिन्धुसागरसङ्गमः ।

गोविन्दो गोपतिर्गोपः कालिन्दीप्रेमपूरकः ॥ ६॥


गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः ।

नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥ ७॥


सर्वमङ्गलदाता च सर्वकामप्रदायकः ।

आदिकर्ता महीभर्ता सर्वसागरसिन्धुजः ॥ ८॥


गजगामी गजोद्धारी कामी कामकलानिधिः ।

कलङ्करहितश्चन्द्रो बिम्बास्यो बिम्बसत्तमः ॥ ९॥


मालाकारः कृपाकारः कोकिलस्वरभूषणः ।

रामो नीलाम्बरो देवो हली दुर्दममर्दनः ॥ १०॥


सहस्राक्षपुरीभेत्ता महामारीविनाशनः ।

शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥ ११॥


कुमारीवरदायी च वरेण्यो मीनकेतनः ।

नरो नारायणो धीरो राधापतिरुदारधीः ॥ १२॥


श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा ।

वृन्दापतिः कुलग्रामी धामी ब्रह्म सनातनः ॥ १३॥


रेवतीरमणो रामः प्रियश्चञ्चललोचनः ।

रामायणशरीरोऽयं रामो रामः श्रियःपतिः ॥ १४॥


शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः ।

राधाराधयिताराधी राधाचित्तप्रमोदकः ॥ १५॥


राधारतिसुखोपेतः राधामोहनतत्परः ।

राधावशीकरो राधाहृदयाम्भोजषट्पदः ॥ १६॥


राधालिङ्गनसम्मोहः राधानर्तनकौतुकः ।

राधासञ्जातसम्प्रीतो राधाकाम्यफलप्रदः ॥ १७॥


वृन्दापतिः कोशनिधिः कोकशोकविनाशनः ।

चन्द्रापतिः चन्द्रपतिः चण्डकोदण्डभञ्जनः ॥ १८॥


रामो दाशरथी रामः भृगुवंशसमुद्भवः ।

आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥ १९॥


वृषभानुभवो भावः काश्यपिः करुणानिधिः ।

कोलाहलो हली हाली हेली हलधरप्रियः ॥ २०॥


राधामुखाब्जमार्ताण्डः भास्करो रविजा विधुः ।

विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥ २१॥


रोहिणीहृदयानन्दो वसुदेवात्मजो बली ।

नीलाम्बरो रौहिणेयो जरासन्धवधोऽमलः ॥ २२॥


नागो नवाम्भो विरुदो वीरहा वरदो बली ।

गोपथो विजयी विद्वान् शिपिविष्टः सनातनः ॥ २३॥


परशुरामवचोग्राही वरग्राही श‍ृगालहा ।

दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥ २४॥


वीरपत्नीयशस्त्राता जराव्याधिविघातकः ।

द्वारकावासतत्त्वज्ञः हुताशनवरप्रदः ॥ २५॥


यमुनावेगसंहारी नीलाम्बरधरः प्रभुः ।

विभुः शरासनो धन्वी गणेशो गणनायकः ॥ २६॥


लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः ।

वामनो वामनीभूतोऽवामनो वामनारुहः ॥ २७॥


यशोदानन्दनः कर्त्ता यमलार्जुनमुक्तिदः ।

उलूखली महामानी दामबद्धाह्वयी शमी ॥ २८॥


भक्तानुकारी भगवान् केशवो बलधारकः ।

केशिहा मधुहा मोही वृषासुरविघातकः ॥ २९॥


अघासुरविनाशी च पूतनामोक्षदायकः ।

कुब्जाविनोदी भगवान् कंसमृत्युर्महामखी ॥ ३०।

अश्वमेधो वाजपेयो गोमेधो नरमेधवान् ।

कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥ ३१॥


रविकोटिप्रतीकाशो वायुकोटिमहाबलः ।

ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥ ३२॥


कमला कमलाक्षश्च कमलामुखलोलुपः ।

कमलाव्रतधारी च कमलाभः पुरन्दरः ॥ ३३॥


सौभाग्याधिकचित्तोऽयं महामायी मदोत्कटः ।

तारकारिः सुरत्राता मारीचक्षोभकारकः ॥ ३४॥


विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः ।

लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥ ३५॥


सीतानन्दकरो रामो वीरो वारिधिबन्धनः ।

खरदूषणसंहारी साकेतपुरवासवान् ॥ ३६॥


चन्द्रावलीपतिः कूलः केशिकंसवधोऽमलः ।

माधवो मधुहा माध्वी माध्वीको माधवो विधुः ॥ ३७॥


मुञ्जाटवीगाहमानः धेनुकारिर्धरात्मजः ।

वंशीवटविहारी च गोवर्धनवनाश्रयः ॥ ३८॥


तथा तालवनोद्देशी भाण्डीरवनशङ्खहा ।

तृणावर्तकृपाकारी वृषभानुसुतापतिः ॥ ३९॥


राधाप्राणसमो राधावदनाब्जमधुव्रतः ।

गोपीरञ्जनदैवज्ञः लीलाकमलपूजितः ॥ ४०॥


क्रीडाकमलसन्दोहः गोपिकाप्रीतिरञ्जनः ।

रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥ ४१॥


कामः कामारिभक्तोऽयं पुराणपुरुषः कविः ।

नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥ ४२॥


अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः ।

ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥ ४३॥


पद्मनाभः सुरज्येष्ठी ब्रह्मा रुद्रोऽहिभूषितः ।

गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही ॥ ४४॥


गणाश्रयो गणाध्यक्षः क्रोडीकृतजगत्त्रयः ।

यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥ ४५॥


भ्रमरः कुन्तली कुन्तीसुतरक्षो महामखी ।

यमुनावरदाता च काश्यपस्य वरप्रदः ॥ ४६॥


शङ्खचूडवधोद्दामो गोपीरक्षणतत्परः ।

पाञ्चजन्यकरो रामी त्रिरामी वनजो जयः ॥ ४७॥


फाल्गुनः फाल्गुनसखो विराधवधकारकः ।

रुक्मिणीप्राणनाथश्च सत्यभामाप्रियङ्करः ॥ ४८॥


कल्पवृक्षो महावृक्षः दानवृक्षो महाफलः ।

अङ्कुशो भूसुरो भावो भ्रामको भामको हरिः ॥ ४९॥


सरलः शाश्वतो वीरो यदुवंशी शिवात्मकः ।

प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥ ५०॥


महाधनी महावीरो वनमालाविभूषणः ।

तुलसीदामशोभाढ्यो जालन्धरविनाशनः ॥ ५१॥


शूरः सूर्यो मृतण्डश्च भास्करो विश्वपूजितः ।

रविस्तमोहा वह्निश्च बाडवो वडवानलः ॥ ५२॥


दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः ।

गोपीनाथो महानाथो वृन्दानाथोऽविरोधकः ॥ ५३॥


प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोपतिः ।

गङ्गा च यमुनारूपो गोदा वेत्रवती तथा ॥ ५४॥


कावेरी नर्मदा ताप्ती गण्डकी सरयूस्तथा ।

राजसस्तामसस्सत्त्वी सर्वाङ्गी सर्वलोचनः ॥ ५५॥


सुधामयोऽमृतमयो योगिनीवल्लभः शिवः ।

बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥ ५६॥


वंशी वंशधरो लोकः विलोको मोहनाशनः ।

रवरावो रवो रावो बलो बालबलाहकः ॥ ५७॥


शिवो रुद्रो नलो नीलो लाङ्गली लाङ्गलाश्रयः ।

पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥ ५८॥


मोहिनीमोहनो मायी महामायो महामखी ।

वृषो वृषाकपिः कालः कालीदमनकारकः ॥ ५९॥


कुब्जाभाग्यप्रदो वीरः रजकक्षयकारकः ।

कोमलो वारुणो राजा जलजो जलधारकः ॥ ६०॥


हारकः सर्वपापघ्नः परमेष्ठी पितामहः ।

खड्गधारी कृपाकारी राधारमणसुन्दरः ॥ ६१॥


द्वादशारण्यसम्भोगी शेषनागफणालयः ।

कामः श्यामः सुखश्रीदः श्रीपतिः श्रीनिधिः कृती ॥ ६२॥


हरिर्नारायणो नारो नरोत्तम इषुप्रियः ।

गोपालीचित्तहर्ता च कर्त्ता संसारतारकः ॥ ६३॥


आदिदेवो महादेवो गौरीगुरुरनाश्रयः ।

साधुर्मधुर्विधुर्धाता त्राताऽक्रूरपरायणः ॥ ६४॥


रोलम्बी च हयग्रीवो वानरारिर्वनाश्रयः ।

वनं वनी वनाध्यक्षः महावन्द्यो महामुनिः ॥ ६५॥


स्यामन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः ।

गोवर्द्धनो वर्द्धनीयः वर्द्धनो वर्द्धनप्रियः ॥ ६६॥


वर्द्धन्यो वर्द्धनो वर्द्धी वार्द्धिष्णुः सुमुखप्रियः ।

वर्द्धितो वृद्धको वृद्धो वृन्दारकजनप्रियः ॥ ६७॥


गोपालरमणीभर्ता साम्बकुष्ठविनाशकः ।

रुक्मिणीहरणः प्रेमप्रेमी चन्द्रावलीपतिः ॥ ६८॥


श्रीकर्ता विश्वभर्ता च नरो नारायणो बली ।

गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥ ६९॥


व्यासो नारायणो दिव्यो भव्यो भावुकधारकः ।

श्वःश्रेयसं शिवं भद्रं भावुकं भाविकं शुभम् ॥ ७०॥


शुभात्मकः शुभः शास्ता प्रशास्ता मेघानादहा ।

ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥ ७१॥


कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः ।

कृष्णः कामी सदा कृष्णः समस्तप्रियकारकः ॥ ७२॥


नन्दो नन्दी महानन्दी मादी मादनकः किली ।

मिली हिली गिली गोली गोलो गोलालयो गुली ॥ ७३॥


गुग्गुली मारकी शाखी वटः पिप्पलकः कृती ।

म्लेच्छहा कालहर्त्ता च यशोदायश एव च ॥ ७४॥


अच्युतः केशवो विष्णुः हरिः सत्यो जनार्दनः ।

हंसो नारायणो लीलो नीलो भक्तिपरायणः ॥ ७५॥


जानकीवल्लभो रामः विरामो विघ्ननाशनः ।

सहभानुर्महाभानुः वीरबाहुर्महोदधिः ॥ ७६॥


समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।

गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥ ७७॥


सदारामः कृपारामः महारामो धनुर्धरः ।

पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥ ७८॥


कम्बलाश्वतरो रामो रामायणप्रवर्तकः ।

द्यौर्दिवो दिवसो दिव्यो भव्यो भावि भयापहः ॥ ७९॥


पार्वतीभाग्यसहितो भर्ता लक्ष्मीविलासवान् ।

विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥ ८०॥


मुरारिर्लोकधर्मज्ञः जीवनो जीवनान्तकः ।

यमो यमादियमनो यामी यामविधायकः ॥ ८१॥


वसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः ।

ललिता चन्द्रिकामाली माली मालाम्बुजाश्रयः ॥ ८२॥


अम्बुजाक्षो महायज्ञः दक्षः चिन्तामणिः प्रभुः ।

मणिर्दिनमणिश्चैव केदारो बदरीश्रयः ॥ ८३॥


बदरीवनसम्प्रीतः व्यासः सत्यवतीसुतः ।

अमरारिनिहन्ता च सुधासिन्धुविधूदयः ॥ ८४॥


चन्द्रो रविः शिवः शूली चक्री चैव गदाधरः ।

श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥ ८५॥


श्रीपतिः पुण्डरीकाक्षः पद्मनाभो जगत्पतिः ।

वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥ ८६॥


नारायणः परं धाम देवदेवो महेश्वरः ।

चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥ ८७॥


भगवान् सर्वभूतेशो गोपालः सर्वपालकः ।

अनन्तो निर्गुणो नित्यो निर्विकल्पो निरञ्जनः ॥ ८८॥


निराधारो निराकारः निराभासो निराश्रयः ।

पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥ ८९॥


क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः ।

विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥ ९०॥


देवकीगर्भसम्भूतो यशोदावत्सलो हरिः ।

शिवः सङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥ ९१॥


अव्ययः सर्वधर्मज्ञः निर्मलो निरुपद्रवः ।

निर्वाणनायको नित्यो नीलजीमूतसन्निभः ॥ ९२॥


कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः ।

हृषीकेशः पीतवासा वसुदेवप्रियात्मजः ॥ ९३॥


नन्दगोपकुमारार्यः नवनीताशनो विभुः ।

पुराणपुरुषः श्रेष्ठः शङ्खपाणिः सुविक्रमः ॥ ९४॥


अनिरुद्धश्चक्ररथः शार्ङ्गपाणिश्चतुर्भुजः ।

गदाधरः सुरार्तिघ्नो गोविन्दो नन्दकायुधः ॥ ९५॥


वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः ।

तृणावर्तान्तको भीमसाहसी बहुविक्रमः ॥ ९६॥


शकटासुरसंहारी बकासुरविनाशनः ।

धेनुकासुरसंहारी पूतनारिर्नृकेसरी ॥ ९७॥


पितामहो गुरुस्साक्षात् प्रत्यगात्मा सदाशिवः ।

अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्द्धनः ॥ ९८॥


धन्यो मान्यो भवो भावो धीरः शान्तो जगद्गुरुः ।

अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवसंस्तुतः ॥ ९९॥


क्षीराब्धिशयनो धाता लक्ष्मीवांल्लक्ष्मणाग्रजः ।

धात्रीपतिरमेयात्मा चन्द्रशेखरपूजितः ॥ १००॥


लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः ।

कोटिमन्मथसौन्दर्यः जगन्मोहनविग्रहः ॥ १०१॥


मन्दस्मिताननो गोपो गोपिकापरिवेष्टितः ।

फुल्लारविन्दनयनः चाणूरान्ध्रनिषूदनः ॥ १०२॥


इन्दीवरदलश्यामो बर्हिबर्हावतंसकः ।

मुरलीनिनदाह्लादः दिव्यमाल्याम्बरावृतः ॥ १०३॥


सुकपोलयुगः सुभ्रूयुगलः सुललाटकः ।

कम्बुग्रीवो विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥ १०४॥


पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः ।

कलङ्करहितः शुद्धः दुष्टशत्रुनिबर्हणः ॥ १०५॥


किरीटकुण्डलधरः कटकाङ्गदमण्डितः ।

मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥ १०६॥


मञ्जीररञ्जितपदः सर्वाभरणभूषितः ।

विन्यस्तपादयुगलो दिव्यमङ्गलविग्रहः ॥ १०७॥


गोपिकानयनानन्दः पूर्णचन्द्रनिभाननः ।

समस्तजगदानन्दः सुन्दरो लोकनन्दनः ॥ १०८॥


यमुनातीरसञ्चारी राधामन्मथवैभवः ।

गोपनारीप्रियो दान्तो गोपीवस्त्रापहारकः ॥ १०९॥


श‍ृङ्गारमूर्तिः श्रीधामा तारको मूलकारणम् ।

सृष्टिसंरक्षणोपायः क्रूरासुरविभञ्जनः ॥ ११०॥


नरकासुरसंहारी मुरारिररिमर्दनः ।

आदितेयप्रियो दैत्यभीकरो यदुशेखरः ॥ १११॥


जरासन्धकुलध्वंसी कंसारातिः सुविक्रमः ।

पुण्यश्लोकः कीर्तनीयः यादवेन्द्रो जगन्नुतः ॥ ११२॥


रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः ।

मित्रविन्दानाग्नजितीलक्ष्मणासमुपासितः ॥ ११३॥


सुधाकरकुले जातोऽनन्तप्रबलविक्रमः ।

सर्वसौभाग्यसम्पन्नो द्वारकापत्तने स्थितः ॥ ११४॥


भद्रासूर्यसुतानाथो लीलामानुषविग्रहः ।

सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥ ११५॥


वेदान्तवेद्यः संवेद्यो वैद्यो ब्रह्माण्डनायकः ।

गोवर्द्धनधरो नाथः सर्वजीवदयापरः ॥ ११६॥


मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः ।

सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥ ११७॥


षड्गुणैश्वर्यसम्पन्नः पूर्णकामो धुरन्धरः ।

महानुभावः कैवल्यदायको लोकनायकः ॥ ११८॥


आदिमध्यान्तरहितः शुद्धसात्त्विकविग्रहः ।

असमानः समस्तात्मा शरणागतवत्सलः ॥ ११९॥


उत्पत्तिस्थितिसंहारकारणं सर्वकारणम् ।

गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥ १२०॥


विष्वक्सेनः सत्यसन्धः सत्यवाक् सत्यविक्रमः ।

सत्यव्रतः सत्यरतः सर्वधर्मपरायणः ॥ १२१॥


आपन्नार्तिप्रशमनः द्रौपदीमानरक्षकः ।

कन्दर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥ १२२॥


भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः ।

दमघोषसुतद्वेषी बाणबाहुविखण्डनः ॥ १२३॥


भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः ।

कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ॥ १२४॥


नारसिंहो महावीरः स्तम्भजातो महाबलः ।

प्रह्लादवरदः सत्यो देवपूज्योऽभयङ्करः ॥ १२५॥


उपेन्द्र इन्द्रावरजो वामनो बलिबन्धनः ।

गजेन्द्रवरदः स्वामी सर्वदेवनमस्कृतः ॥ १२६॥


शेषपर्यङ्कशयनः वैनतेयरथो जयी ।

अव्याहतबलैश्वर्यसम्पन्नः पूर्णमानसः ॥ १२७॥


योगेश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः ।

योगिहृत्पङ्कजावासो योगमायासमन्वितः ॥ १२८॥


नादबिन्दुकलातीतश्चतुर्वर्गफलप्रदः ।

सुषुम्नामार्गसञ्चारी देहस्यान्तरसंस्थितः ॥ १२९॥


देहेन्द्रियमनःप्राणसाक्षी चेतःप्रसादकः ।

सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥ १३०॥


तत्त्वत्रयात्मकोऽव्यक्तः कुण्डली समुपाश्रितः ।

ब्रह्मण्यः सर्वधर्मज्ञः शान्तो दान्तो गतक्लमः ॥ १३१॥


श्रीनिवासः सदानन्दः विश्वमूर्तिर्महाप्रभुः ।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १३२॥


समस्तभुवनाधारः समस्तप्राणरक्षकः ।

समस्तसर्वभावज्ञो गोपिकाप्राणवल्लभः ॥ १३३॥


नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमङ्गलः ।

व्यूहार्चितो जगन्नाथः श्रीवैकुण्ठपुराधिपः ॥ १३४॥


पूर्णानन्दघनीभूतः गोपवेषधरो हरिः ।

कलापकुसुमश्यामः कोमलः शान्तविग्रहः ॥ १३५॥


गोपाङ्गनावृतोऽनन्तो वृन्दावनसमाश्रयः ।

वेणुवादरतः श्रेष्ठो देवानां हितकारकः ॥ १३६॥


बालक्रीडासमासक्तो नवनीतस्य तस्करः ।

गोपालकामिनीजारश्चौरजारशिखामणिः ॥ १३७॥


परञ्ज्योतिः पराकाशः परावासः परिस्फुटः ।

अष्टादशाक्षरो मन्त्रो व्यापको लोकपावनः ॥ १३८॥


सप्तकोटिमहामन्त्रशेखरो देवशेखरः ।

विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पतिः ॥ १३९॥


भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रहः ।

भक्तदारिद्र्यदमनो भक्तानां प्रीतिदायकः ॥ १४०॥


भक्ताधीनमनाः पूज्यः भक्तलोकशिवङ्करः ।

भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृन्तनः ॥ १४१॥


अपारकरुणासिन्धुर्भगवान् भक्ततत्परः ॥ १४२॥


॥ इति गोपाल सहस्रनामस्तोत्रम् सम्पूर्णम् ॥


फलश्रुतिः


(॥ गोपालसहस्रनाम माहात्म्यम् ॥)

स्मरणात् पापराशीनां खण्डनं मृत्युनाशनम् ॥ १ ॥


वैष्णवानां प्रियकरं महारोगनिवारणम् ।

ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा ॥ २ ॥


परद्रव्यापहरणं परद्वेषसमन्वितम् ।

मानसं वाचिकं कायं यत्पापं पापसम्भवम् ॥ ३ ॥


सहस्रनामपठनात् सर्वं नश्यति तत्क्षणात् ।

महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान् ॥ ४ ॥


कार्तिक्यां सम्पठेद्रात्रौ शतमष्टोत्तरं क्रमात् ।

पीताम्बरधरो धीमान् सुगन्धैः पुष्पचन्दनैः ॥ ५ ॥


पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च ।

राधाध्यानाङ्कितो धीरो वनमालाविभूषितः ॥ ६ ॥


शतमष्टोत्तरं देवि पठेन्नामसहस्रकम् ।

चैत्रशुक्ले च कृष्णे च कुहूसङ्क्रान्तिवासरे ॥ ७ ॥


पठितव्यं प्रयत्नेन त्रैलोक्यं मोहयेत् क्षणात् ।

तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥ ८ ॥


रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ।

ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥ ९ ॥


पठेन्नामसहस्रं च ततः सिद्धिः प्रजायते ।

महानिशायां सततं वैष्णवो यः पठेत् सदा ॥ १० ॥


देशान्तरगता लक्ष्मीः समायाति न संशयः ।

त्रैलोक्ये च महादेवि सुन्दर्यः काममोहिताः ॥ ११ ॥


मुग्धाः स्वयं समायान्ति वैष्णवं च भजन्ति ताः ।

रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ १२॥


गुर्विणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम् ।  var  गर्भिणी

राजानो वश्यतां यान्ति किं पुनः क्षुद्रमानवाः ॥ १३॥


सहस्रनामश्रवणात् पठनात् पूजनात् प्रिये ।

धारणात् सर्वमाप्नोति वैष्णवो नात्र संशयः ॥ १४॥


वंशीवटे चान्यवटे तथा पिप्पलकेऽथ वा ।

कदम्बपादपतले गोपालमूर्तिसंनिधौ ॥ १५।

यः पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम् ।

कृष्णेनोक्तं राधिकायै मया प्रोक्तं तथा शिवे ॥ १६॥


नारदाय मया प्रोक्तं नारदेन प्रकाशितम् ।

मया तुभ्यं वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥ १७॥


गोपनीयं प्रयत्नेन न प्रकाश्यं कथंचन ।

शठाय पापिने चैव लम्पटाय विशेषतः ॥ १८॥


न दातव्यं न दातव्यं न दातव्यं कदाचन ।

देयं शिष्याय शान्ताय विष्णुभक्तिरताय च ॥ १९॥


गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च ।

अश्वमेधसहस्रस्य फलं पाठे भवेत् ध्रुवम् ॥ २०॥


मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम् ।

यद्यद्वाञ्छति चित्तेन तत्तत्प्राप्नोति वैष्णवः ॥ २१॥


एकादश्यां नरः स्नात्वा सुगन्धिद्रव्यतैलकैः ।

आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥ २२॥


तत आरम्भकर्तास्य सर्वं प्राप्नोति मानवः ।

शतावृत्तं सहस्रं च यः पठेद्वैष्णवो जनः ॥ २३॥


श्रीवृन्दावनचन्द्रस्य प्रसादात्सर्वमाप्नुयात् ।

यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥ २४॥


न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् ।

सर्पाद्या भूतयक्षाद्या नश्यन्ते नात्र संशयः ॥ २५॥


श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा ।

गृहे यत्र सहस्रं च नाम्नां तिष्ठति पूजितम् ॥ २६॥


॥ ॐ तत्सदिति श्रीसम्मोहनतन्त्रे पार्वतीश्वरसंवादे

गोपालसहस्रनामस्तोत्रं सम्पूर्णम् ॥


श्रीराधारमणः कृष्णः गुणरत्नैस्सुगुम्फिताम् ।

स्वीकृत्येमां मितां मालां स नो विष्णुः प्रसीदतु ॥

श्री गोपालसहस्रनाम शापविमोचनमहामन्त्रम्


ॐ अस्य श्रीगोपालसहस्रनाम शापविमोचनमहामन्त्रस्य वामदेवऋषिः ।

श्रीगोपालो देवता पङ्क्तिः छन्दः ।

श्री सदाशिववाक्य शापविमोचनार्थं जपे विनियोगः ।

ऋष्यादिन्यासः

वामदेव ऋषये नमः शिरसि ।

गोपाल देवतायै नमः हृदये ।

पङ्क्ति छन्दसे नमः मुखे ।

सदाशिववाक्य शापविमुक्त्यर्थं नमः सर्वाङ्गे ॥


अथ करादिन्यासः

ॐ ऐं अङ्गुष्ठाभ्यां नमः ॥

ॐ क्लीं तर्जनीभ्यां नमः ॥

ॐ ह्रीं मध्यमाभ्यां नमः ॥

ॐ श्रीं अनामिकाभ्यां नमः ॥

ॐ वामदेवाय कनिष्ठिकाभ्यां नमः ॥

ॐ नमः स्वाहा करतलकरपृष्ठाभ्यां नमः ॥


अथ हृदयादिन्यासः

ॐ ऐं हृदयाय नमः ॥

ॐ क्लीं शिरसि स्वाहा ॥

ॐ ह्रीं शिखायै वषट् ॥

ॐ श्रीं कवचाय हुम् ॥

ॐ वामदेवाय नेत्रस्त्रयाय वौषट् ॥

ॐ नमः स्वाहा अस्त्राय फट् ॥


अथ ध्यानम्

ॐ ध्यायेद्देवं गुणातीतं पीतकौशेयवाससम् ।

प्रसन्नं चारुवदनं च निर्गुणं श्रीपतिं प्रभुम् ॥

मन्त्रः

ॐ ऐं क्लीं ह्रीं श्रीं वामदेवाय नमः (स्वाहा)।

0/Post a Comment/Comments

आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

Stay Conneted

(1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

 

 



Hot Widget

 

( श्री राम देशिक प्रशिक्षण केंद्र )

भागवत कथा सीखने के लिए अभी आवेदन करें-


close