surya ashtakam lyric श्रीसूर्याष्टकम्
अथ श्रीसूर्याष्टकम्
श्रीसाम्ब उवाच-
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर!।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥१॥
सप्ताश्वरथमारूढं प्रचण्ड कश्यपात्मजम्।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥
लोहितं रथमारूढं सर्वलोकपितामहम्।
महापापहरं देवं तं सूर्य प्रणमाम्यहम् ॥३॥
त्रैगुण्यं महाशूरं ब्रह्मविष्णुमहेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥
वृंहितं तेजः पुजञ्च वायुराकाशमेव च।
प्रभवं सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥
बन्धूकपुष्पसंकाशं हारकुण्डलभूषितम्।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥
तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥
सूर्याष्टकं पठेन्नित्यं ग्रहपीडाप्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ॥९॥
आमिषं मधुपानं च यः करोति रवेर्दिने ।
सप्तजन्म भवेद्रोगी जन्म जन्म दरिद्रता ॥१०॥
स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने।
व्याधिः शोकं न दारिद्र्यं सूर्यलोकं स गच्छति ॥११॥
॥ इति श्रीशिवप्रोक्तं सूर्याष्टकम् ।।