surya pratah smaran mantra
श्रीसूर्यप्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि खलु तत् सवितुर्वरेण्यं
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि ।
सामानि यस्य किरणाः प्रभवादिहेतुं
ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥
प्रातर्नमामि तरणिं तनुवाङ्मनोभि-
र्ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च ।
वृष्टिप्रमोचनविनिग्रहहेतुभूतं
त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥
प्रातर्भजामि सवितारमनन्तशक्तिं
पापौघशत्रुभयरोगहरं पर च।
तं सर्वलोककलनात्मककालमूत
गोकण्ठबन्धनविमोचनमादिदेवम्॥३॥
श्लोकत्रयमिदं भानोः प्रातः प्रातः पठेत्तु यः।
स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नुयात् ॥४॥
surya pratah smaran mantra
श्रीसूर्यप्रातःस्मरणस्तोत्रम्