श्रीदामोदराष्टक damodar ashtak lyrics
श्रीदामोदराष्टक
नमामीश्वरं सच्चिदानन्दरूपं, लसत्कुण्डलं गोकुले भ्राजमानम्।
नमामीश्वरं सच्चिदानन्दरूपं, लसत्कुण्डलं गोकुले भ्राजमानम्।
यशोदाभियोलूखलाद्धावमानं, परामृष्टमत्यं ततो द्रुत्य गोप्या ।।१।।
रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं, कराम्भोज-युग्मेन सातंकनेत्रम् ।
मुहुः श्वासकम्प-त्रिरेखांकण्ठ-स्थित-ग्रैव-दामोदरं भक्तिबद्धम् ।।२।।
इतीदृक् स्वलीलाभिरानन्दकुण्डे, स्वघोषं निमज्जन्तमाख्यापयन्तम्।
तदीयेशितज्ञेषु भक्तैर्जितत्वं, पुनः प्रेमतस्तं शतावृत्ति वन्दे ।।३।।
वरं देव! मोक्षं न मोक्षावधिं वा, न चान्यं वृणेऽहं वरेशादपीह ।
इदं ते वपुर्नाथ ! गोपालबालं, सदा मे मनस्याविरास्तां किमन्यैः ।।४।।
इदं ते मुखाम्भोजमत्यन्तनीलै-वृतं कुन्तलैः स्निग्ध-वक्रैश्च गोप्या।
मुहुश्चुम्बितं बिम्बरक्ताधरं मे, मनस्याविरास्तामलं लक्षलाभैः ।।५।।
नमो देव दामोदरानन्तं विष्णो ! प्रसीद प्रभो ! दुःखजालाब्धि-मग्नम् ।
कृपादृष्टि-वृष्ट्यातिदीनं वतानु, गृहाणेश! मामज्ञमेध्यक्षिदृश्यः ।।६।।
कुबेरात्मजौ बद्धमूर्तेव यद्वत्, त्वया मोचितौ भक्तिभाजौ कृतौ च।
तथा प्रेमभक्तिं स्वकां मे प्रयच्छ, न मोक्षे ग्रहो मेऽस्ति दामोदरेह ।।७।।
नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने, त्वदीयोदरायाथ विश्वस्य धाम्ने।
नमो राधिकायै त्वदीय प्रियायै, नमोऽनन्तलीलाय देवाय तुभ्यम् ।।८।।