पुण्यश्लोकोंका स्मरण punya shlok lyrics
पुण्यश्लोकोंका
स्मरण
पुण्यश्लोको नलो राजा
पुण्यश्लोको जनार्दनः ।
पुण्यश्लोका च वैदेही
पुण्यश्लोको युधिष्ठिरः ॥
अश्वत्थामा बलिर्व्यासो
हनूमांश्च विभीषणः ।
कृपः परशुरामश्च सप्तैते
चिरजीविनः ॥
(पद्मपु० ५१ । ६-७)
सप्तैतान् संस्मरेन्नित्यं
मार्कण्डेयमथाष्टमम् ।
जीवेद् वर्षशतं
साग्रमपमृत्युविवर्जितः ॥ (आचारेन्दु, पृ० २२)
पुण्यश्लोकोंका स्मरण punya shlok lyrics
कर्कोटकस्य नागस्य
दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षे:
कीर्तनं कलिनाशनम् ॥
(मार्क० स्मृ०, पृ० ३२)
प्रह्लादनारदपराशरपुण्डरीक
व्यासाम्बरीषशुकशौनकभीष्मदाल्भ्यान्
। रुक्माङ्गदार्जुनवसिष्ठविभीषणादीन्
पुण्यानिमान् परमभागवतान्
नमामि ॥
धर्मो विवर्धति
युधिष्ठिरकीर्तनेन
पापं प्रणश्यति
वृकोदरकीर्तनेन ।
शत्रुर्विनश्यति
धनञ्जयकीर्तनेन
माद्रीसुतौ कथयतां न
भवन्ति रोगाः ॥
वाराणस्यां भैरवो देवः
संसारभयनाशनः ।
अनेकजन्मकृतं पापं स्मरणेन
विनश्यति ॥
वाराणस्यां पूर्वभागे
व्यासो नारायणः स्वयम् ।
तस्य स्मरणमात्रेण अज्ञानी
ज्ञानवान् भवेत् ॥
वाराणस्यां पश्चिमे भागे
भीमचण्डी महासती ।
तस्याः स्मरणमात्रेण
सर्वदा विजयी भवेत् ॥
वाराणस्यामुत्तरे भागे
सुमन्तुर्नाम वै द्विजः ।
तस्य स्मरणमात्रेण निर्धनो
धनवान् भवेत् ॥
वाराणस्यां दक्षिणे भागे
कुक्कुटो नाम ब्राह्मणः ।
तस्य स्मरणमात्रेण
दुःस्वप्नः सुस्वप्नो भवेत् ॥
उमा उषा च वैदेही रमा
गङ्गेति पञ्चकम् ।
प्रातरेव पठेन्नित्यं
सौभाग्यं वर्धते सदा ॥
सोमनाथो वैद्यनाथो
धन्वन्तरिरथाश्विनौ ।
पञ्चैतान् यः
स्मरेन्नित्यं व्याधिस्तस्य न जायते ॥
कपिला कालियोऽनन्तो
वासुकिस्तक्षकस्तथा ।
पञ्चैतान् स्मरतो नित्यं
विषबाधा न जायते ॥
हरं हरिं हरिश्चन्द्रं
हनूमन्तं हलायुधम् ।
पञ्चकं वै स्मरेन्नित्यं
घोरसंकटनाशनम् ॥
आदित्यश्च उपेन्द्रश्च
चक्रपाणिर्महेश्वरः । ।
दण्डपाणि: प्रतापी स्यात्
क्षुत्तृड्बाधा न बाधते ॥
वसुर्वरुणसोमौ च सरस्वती च
सागरः ।
पञ्चैतान् संस्मरेद् यस्तु
तृषा तस्य न बाधते ॥ सनत्कुमारदेवर्षिशुकभीष्मप्लवङ्गमाः
पञ्चैतान् स्मरतो नित्यं
कामस्तस्य न बाधते ॥
रामलक्ष्मणौ सीता च
सुग्रीवो हनुमान् कपिः ।
पञ्चैतान् स्मरतो नित्यं
महाबाधा प्रमुच्यते ॥
विश्वेशं माधवं दुपिंढ
दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां
भवानीं मणिकर्णिकाम् ॥
(पद्मपुराण)
महर्षिर्भगवान् व्यासः
कृत्वेमां संहितां पुरा ।
श्लोकैश्चतुर्भिर्धर्मात्मा
पुत्रमध्यापयच्छुकम् ॥
मातापितृसहस्राणि
पुत्रदाराशतानि च ।
संसारेष्वनुभूतानि यान्ति
यास्यन्ति चापरे ॥
हर्षस्थानसहस्त्राणि
भयस्थानशतानि च।
दिवसे दिवसे मूढमाविशन्ति
न पण्डितम् ॥
ऊर्ध्वबाहुर्विरौम्येष न च
कश्चिच्छृणोति मे ।
धर्मादर्थश्च कामश्च स
किमर्थं न सेव्यते ॥
न जातु कामान्न भयान्न लोभाद् धर्मं त्यजेज्जीवितस्यापि हेतोः ।
धर्मो नित्यः सुखदुःखे
त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥
इमां भारतसावित्रीं
प्रातरुत्थाय यः पठेत् ।
स भारतफलं प्राप्य परं
ब्रह्माधिगच्छति ॥ (आचारेन्दु, पृ० २२में
व्यासवचन)
नित्यकर्म- स्तुति पूजन मंत्र स्तोत्र की संपूर्ण सूची देखें