F श्रीवरदवल्लभास्तोत्रम्- varada-vallabhA-stotram-lyrics - bhagwat kathanak
श्रीवरदवल्लभास्तोत्रम्- varada-vallabhA-stotram-lyrics

bhagwat katha sikhe

श्रीवरदवल्लभास्तोत्रम्- varada-vallabhA-stotram-lyrics

श्रीवरदवल्लभास्तोत्रम्-  varada-vallabhA-stotram-lyrics

श्रीवरदवल्लभास्तोत्रम्

श्रीवरदवल्लभास्तोत्रम्-  varada-vallabhA-stotram-lyrics

रामानुज सम्प्रदाय- नित्य पाठ-1  

कान्तस्ते पुरुषोत्तमः फणिपतिः शय्यासनं वाहनं

वेदात्मा विहगेश्वरो जवनिका माया जगन्मोहिनी ।

ब्रह्मेशादिसुरव्रजः सदयितस्त्वद्दासदासीगणः

श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥१॥


यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभुः

नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।

तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो

लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥२॥


ईषत्त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद् रक्षसे(?)

नष्टं प्राक् तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् ।

श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते

संसृत्याक्षरवैष्णवाध्वसु(?) नृणां संभाव्यते कर्हिचित् ॥३॥


शान्तानन्दमहाविभूति परमं यद्ब्रह्मरूपं हरेः

मूर्तं ब्रह्म ततोऽपि यत्प्रियतरं रूपं यदत्यद्‍भुतम् ।

यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता –

न्याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥४॥


आधारत्रयसंपन्नाम् अरविन्दविलासिनीम् ।

अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥५॥


रामानुज सम्प्रदाय के स्तोत्रों की यहाँ पर सूची दी गयी है , जो भी स्तोत्र का पाठ करना हो उस पर क्लिक करके पढ़ सकते हैं। 

नीचे दिए गए लिंक पर क्लिक करके स्तोत्र संग्रह की लिस्ट [सूची] देखें-

Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3