अजराऽमरवत्प्राज्ञो/ajaramaravat pragyo shloka niti
अजराऽमरवत्प्राज्ञो विद्यामर्थञ्च चिन्तयेत्।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ।।३।।
प्रसंग:- प्राज्ञमानवस्य परमं कर्त्तव्यं निर्दिशति-.
अन्वयः- प्राज्ञः अजराऽमरवत् विद्याम् अर्थम्, च, चिन्तयेत् मृत्युना, केशेषु गृहीतः इव, धर्मम् आचरेत् ।।३।
।
व्याख्या- प्राज्ञः = पण्डितः, अजरामरवत् = जरामरणरहितवत्, जरामृत्यू मे कदापि नागमिष्यतः इति मत्वेत्यर्थः, विद्यां = गद्यपद्योभयात्मकं संस्कृतवाम्ङ्मयम्, अर्थञ्च–धनञ्च, चिन्तयेत् = उपार्जयेदित्यर्थः, मृत्युना = कालेन, केशेषु गृहीतः इव = आकृष्टकेश इव, धर्मम् = धर्मकर्म आचरेत् = पालयेत् ।।३।।
भाषा- बुद्धिमान मनुष्य अपने को बुढ़ापा और मृत्यु से रहित समझकर विद्या और धन का उपार्जन करे और मृत्यु मानों सिर पर सवार है-ऐसा समझकर धर्म का पालन करता रहे।।३।।
नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक करके। -click- Niti Sangrah all Shloka List
अजराऽमरवत्प्राज्ञो/ajaramaravat pragyo shloka niti