भारतीयार्यमर्यादां / bharti yarya maryadam shlok neeti
भारतीयार्यमर्यादां देवभाषां च वेदितुम् ।
कुमार्यश्च कुमाराश्च पठेयुर्नीतिसंग्रहम् ।।२।।
प्रसंग:- नीतिसंग्रहाध्ययनस्य प्रयोजनं प्रस्तौति-
अन्वयः- कुमार्यः, कुमाराः च भारतीयार्यमर्यादां देवभाषां, च वेदितुं, नीतिसंग्रहं पठेयुः ।।२।।
व्याख्या- (कुमार्यः = बालिकाः, कुमाराः = बालकाश्च, अतुम् सदाचरितुं योग्या आर्याः, भारते भवा भारतीयाः, भारतीया आर्याः, भारतीयार्याः तेषां मर्यादा ताम् = भारतीयशिष्टाचारन्यायपथस्थिति, देवानां भाषा देवभाषा तां देवभाषाम् = अमरवाणीम् वेदितुं = ज्ञातु, नीतेः = नीतिशास्त्रस्य संग्रहः नीतिसंग्रहस्तं नीतिसंग्रहं = संक्षिप्तं हितापदेशम्, पठेयुः = अभ्यसेयुः ।।२।।
भाषा- बालक और बालिकायें भारत के शिष्टाचार की मर्यादा और देवताओं की भाषा (संस्कृत) को जानने के लिए नीतिसंग्रह को पढ़े।।२।।
नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक करके। -click- Niti Sangrah all Shloka List
भारतीयार्यमर्यादां / bharti yarya maryadam shlok neeti