pratah smaran mantra lyrics
नित्य कर्म के साथ बोले जाने वाले श्लोक
पृथ्वीवंदना
समुद्रवसने देवी पर्वतस्तनमण्डले
विष्णुपत्नि नमस्तुभ्यं पादस्पर्श क्षमस्व मे ।।
स्नानम्
गंगे च यमुने चैव गोदावरि सरस्वति
नर्मदे सिंधु कावेरि जलेऽस्मिन् सन्निधिं कुरू ।।
सूर्यवंदनम्
आदिदेव ! नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर ! नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ।।
pratah smaran mantra lyrics
नित्य कर्म के साथ बोले जाने वाले श्लोक
सूर्यनमस्कारः
नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चिनारायणशंकरात्मने ।।
साष्टांगनमस्कारः
उरसा शिरसा दृष्टया नमसा वचसा तथा ।
पद्भ्यां कराभ्यां जानुभ्यामेतदष्टांगलक्षणम् ।।
पंचामृतसेवनम्
पयो दधि घृतं चैव मधु च शर्करायुतम् ।
पंचामृतं सदा दत्तं बुद्धिस्वास्थ्यविवर्धनम् ।।
pratah smaran mantra lyrics
नित्य कर्म के साथ बोले जाने वाले श्लोक
पंचागव्यसेवनम्
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोत्तरम् ।
सर्वपापविशुद्धयर्थं पंचगव्यं पुनातु माम् ।।
भोजनम्
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ।।
शयनम
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः ।।
श्री भगवत्स्मरणम्
कराविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।
वटस्यपत्रस्य पुंटे शयानं बालं मुकुन्दं मनसा स्मरामि ।।