अनेकसंशयोच्छेदि /aneka sanshayo chhedi shloka niti
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम्।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः । ७ ।।
प्रसंग:- शास्त्रज्ञानविरहितं पुरुषं निन्दति
अन्वय:- अनेकसंशयोच्छेदि, परोक्षार्थस्य, दर्शकम् शास्त्रं सर्वस्य, लोचनं, “यत्" (वर्तते) “तत्' यस्य, नास्ति सः अन्धः एव भवति
व्याख्या- अनेकान् संशयान् उच्छिनत्तीति अनेकसंशयोच्छेदि= अनेकविधसंशयनिरासकं परोक्षार्थस्य = इन्द्रियैर्ग्रहीतुमशक्यस्य अप्रत्यक्षविषयस्य, (दर्शकं = प्रत्यक्षमिव यथार्थावबोधकम्, शास्त्रं = पथप्रदर्शकशास्त्रात्मकं चक्षुः, सर्वस्य = समस्तजनस्य, लोचनं = दिव्यनेत्रं, वर्तते तत् = तथाविधम् इन्द्रियातीतभूतभविष्यत्पदार्थदर्शक शास्त्ररूपं नेत्रं, यस्य नास्ति, सः अन्ध एव भवति ।
।७।।
भाषा- अनेक संशयों को मिटाने वाला, भूत एवं भविष्य को तथा अप्रत्यक्ष को प्रत्यक्ष के समान दिखानेवाला, शास्त्ररूपी दिव्यचक्षु जिसके पास नहीं है, वह वास्तव में अन्धा है।।७।
नीति संग्रह- मित्रलाभ: के सभी श्लोकों की लिस्ट देखें नीचे दिये लिंक पर क्लिक करके। -click- Niti Sangrah all Shloka List
अनेकसंशयोच्छेदि /aneka sanshayo chhedi shloka niti