दैवे पुरुषकारे चा /daive purusha kare cha shloka niti
दैवे पुरुषकारे चा स्थितमस्य बलाबलम्।
दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते ।।१६।।
प्रसंग:- दैवापेक्षया पुरुषकारस्य प्राधान्यं वर्णयति -
अन्वयः- दैवे पुरुषकारे च अस्य बलाबलं स्थितम। हि परुषकारेण दुर्बलं दैवम् उपहन्यते ।।१६ ।।
व्याख्या- दैवे = भाग्ये, पुरुषं करोतीति पुरुषकारः तस्मिन् पुरुषकारे पौरुषे च अस्य बलञ्च अबलञ्च बलाबले तयोः समाहारः बलाबलं = दैवभागधेययोः मध्ये कस्य बलम अधिकं कस्य वा न्यूनमित्यर्थः, स्थितम = प्रतिष्ठितम् हि = यतः पुरुषकारेण = पौरुषेण, दुर्बलं = न्यूनबलं दैवम् = भाग्यम् उपहन्यते = हिंसितुं शक्यते।।१६।।
भाषा - भाग्य और पुरुषार्थ में इसका बलाबल विद्यामान है पुरूषकार के द्वारा दुर्बल भाग्य पराजित होता है ।।१६ ।।