पुण्यतीर्थे कृतं येन /punyatirthe kratam yen shlok niti
पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् ।
तस्य पुत्रो भवेद्वश्यः समृद्धो धार्मिकः सुधीः ।।१३।।
प्रसंग:- सत्पुत्रप्राप्तिकारणं निर्दिशति-
अन्वयः- येन क्वापि पुण्यतीर्थे अतिदुष्करं तपः कृतम् तस्य पुत्रः वश्यः समृद्धः, धार्मिक: सुधीः (च) भवेत।।१३।
व्याख्या- येन क्वापि पुण्यतीर्थ = कस्मिन्नपि पुण्यक्षेत्रे, अतिदुष्करं = अतिकठिनं तपः कृतम्, तस्य-पुरुषस्य पुत्रः, वश्यः आज्ञापालकः, समृद्धः = धनपुत्रादिवैभवसम्पन्नः, धार्मिक: धर्मात्मा, सुधीः सुबुद्धियुक्तः भवतीति शेषः ।
भाषा- जिस पुरुष ने किसी पुण्यतीर्थ में जाकर अतिकठिन तपस्या की हो तो उसके प्रभाव से उसका पुत्र आज्ञाकारी, धनधान्यादियुक्त, धर्मात्मा एवं विद्वान् होता है।।१३।