अर्थनाशं मनस्तापं /artha nasham manastapam shloka niti
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च।
वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् । ७१।।
प्रसंग:- मतिमता किं न प्रकाश्यमिति उत्तरयति-
अन्वयः- मतिमान् अर्थनाशं, मनस्तापं, गृहे दुश्चरितानि च, वञ्चनं च, अपमानं च न प्रकाश्येत् । ७१।।
व्याख्या- मतिमान् = बुद्धिमान्, अर्थस्य = धनस्य, नाशः = क्षयः त, मनसः = अन्तःकरणस्य तापं = दुःखं तं मनस्तापम गहे यानि दुश्चरितानव्यभिचारादिदराचरणानि तानि, वंचनं = दृष्टै: प्रतारणम, अपमान = तिरस्कार चन प्रकाश्येत् । ७१।।
भाषा-बुद्धिमान् मनुष्य अपने धन का नाश, हृदय का दुःख, घर में नेवाला दुराचार, किसी के द्वारा ठगा जाना और किसी के द्वारा तिरस्कार या अपमान किया जाना, इन्हें प्रकाशित न करें।।७१।।