दारिद्रयाध्रियमेति ह्रीपरिगतः/ daridrayadhiya meti shloka niti
दारिद्रयाध्रियमेति, ह्रीपरिगतः, सत्वात्परिभ्रश्यते,
निःसत्व: परिभूयते परिभवान्निर्वेदमापद्यते।
निर्विण्णः शुचमेति शोकपिहितो बुद्धया परित्यज्यते,
निर्बुद्धिः क्षयमेत्यहो! निधनता सर्वापदामास्पदम् ।।७० ।।
प्रसंग:- निधनतायाः सर्वापत्कारणतां वर्णयति-
अन्वयः- दारिद्रयात् हियं एति, हीपरिगतः सत्वात् परिभ्रश्यते, निःसत्व: परिभूयते, परिभवात् निर्वेदम् आपद्यते, निर्विण्णः शुचम् एति, शोकपिहितः बुद्धया परित्यज्यते, निर्बुद्धिः क्षयम् एति । अहो! निधनता सर्वादाम् आस्पदम्।।७० ।।
व्याख्या-जनः दारिद्रयात् = धनाभावत्वात् हियं = लज्जां एति = प्राप्नोति, ह्रीपरिगतः = लज्जितः, परिभूयते = पराभवं प्राप्नोति, परिभवात् = अनादरात् निर्वेदं = ग्लानिम्, आपद्यते = प्राप्नोति, निर्विण्णः = खिन्नः, शुचं = शोकम्, एति- प्राप्नोति, शोकपिहितः = शोकाकुल: बुद्धया परिल्यज्यते = तस्य बुद्धिर्नश्यति, ततः, निर्बुद्धिः = बुद्धिहीनः पुरुषः क्षयं = नाशम्, एति = प्राप्नोति, अहो! निधनता = धनाभावता, सर्वापदां = सर्वविधविपदाम्, आस्पदं = स्थानं वर्तते ।।७०।।
भाषा- दरिद्रता से मनुष्य लज्जित होता है और लज्जित मनुष्य निस्तेज हो जाता है, तेजहीन हो जाने के कारण उसका निरादर होने लगता है, अनादर से खेद होता है, खिन्न मनुष्य शोकाकुल हो जाता है, शोकाकुल मनुष्य की बुद्धि नष्ट हो जाती है और बुद्धि नष्ट हो जाने पर मनुष्य का नाश हो जाता है। अहो। आश्चर्य है कि दरिद्रता ही सब आपदाओं का एकमात्र स्थान है।