अर्थेन तु विहीनस्य /arthena tu vihinasya shloka niti
अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः।
क्रियाः सर्वाः विनश्यन्ति ग्रीष्मे कुसरितो यथा ।।६७।।
प्रसंग:- धनहीनस्य सर्वकर्मनाशः भवतीति निर्दिशति-
अन्वयः- अर्थेन तु विहीनस्य अल्पमेधसः पुरुषस्य सर्वाः क्रियाः ग्रीष्मे कुसरितः यथा विनश्यन्ति ।।६७ ।।
व्याख्या- तु, अर्थन-धनेन विहीनस्य-रहितस्य, अल्पा मेधा यस्य स तस्य अल्पमेधसः बुद्धिहीनस्य पुरुषस्य सर्वाः क्रियाः तथैव नष्टाः भवन्ति यथा ग्रीष्मे-ग्रीष्मकाले कुसरित: छुद्रनद्यः विनश्यन्ति नश्यन्ति ।।६७।।
भाषा- धनहीन, अल्पबुद्धिवाले पुरुष के सभी कार्य वैसे ही नष्ट हो जात है जैसे-ग्रीष्मऋतु में सूख जाने वाली छोटी-छोटी नदियाँ नष्ट हो जाता हैं।।६७।।