दुर्जनः प्रियवादी च /durjana priya vadi cha shloka niti
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ।।१०।।
प्रसंग:- दुर्जनस्य प्रियवादिता विश्वासकारणं न भवतीति ब्रूते-
अन्वयः- दुर्जन प्रियवादी च तत् विश्वासकारणं न । जिह्वाग्रे मधु तिष्ठति, हृदि तु हालाहलं विषम् (तिष्ठति)।।५० ।।
व्याख्या- दुर्जनः = खलः, प्रियवादी च एतत् = इदमस्य प्रियवादित्वं विश्वासहेतुः, न = नास्ति, यतः तस्य जिह्वाग्रभागे मधु तिष्ठति, हृदि = हृदये तु हालाहालं = विषं तिष्ठतीति शेषः । ।५० ।।
भाषा- दुर्जन का प्रियवादी होना यह उसके विश्वास का कारण नहीं है, क्योंकि उसके मुख में तो अमृत और हृदय में हालाहल विष भरा रहता है।।५०।।