त्रिभिर्वस्त्रिभिर्मासै /tribhivar tribhir masai shloka niti
त्रिभिर्वस्त्रिभिर्मासैस्त्रिभिः पक्षैस्त्रिभिर्दिनैः ।
अत्युत्कटैः पापपुण्यैरिहैव फलमश्नुते ।।५१ ।।
प्रसंग:- पापकर्मफलस्यावश्भोक्तव्यतां निरूपयति-
अन्वयः- (जनः) अत्युत्कटैः पापपुण्यैः फलम्, इह एव त्रिभिः वर्षे, त्रिभिः मासैः, त्रिभिः दिनैः अश्नुते।।५१।।।
व्याख्या - अत्यत्कटैः = अतितीवैः पापानि पण्यानि च तैः पापपण्यैः फलं= परिणामरूपं फलं उत्कटपापपुण्याचरणजनितमित्यर्थः, इह एव = अस्मिन्नेव जन्मनि त्रिभिः वषैः त्रिभिः मासैः त्रिभिः पक्षैः अथवा त्रिभिर्दिनैः अश्नुते = प्राप्नोति नर इति शेषः । ५१।।
भाषा-उत्कट पापों या पुण्यों का फल इसी जन्म से तीन वर्ष, तीन मास, तीनपक्ष या तीन दिन में उसके कर्ता को भोगना पड़ता है।।५१।।