गुरुरग्निर्द्विजातीनां / guru agni dyujatinam shloka niti
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेको गुरुः स्वीणां सर्वस्याभ्यागतो गुरुः ।।६४ ।।
प्रसंग:- अतिथिमहत्वं प्रतिपादयति-
अन्वयः- अग्निः द्विजातीनां गुरुः, ब्राह्मणः वर्णानां गुरुः, स्त्रीणां एकः पति एव गुरुः, अभ्यागतः सर्वस्य गुरुः ।।६४ ।।
व्याख्या- अग्निः = वहिनः द्विजातीनां = ब्राह्मण-क्षत्रिय-विशां गुरुः भवति, ब्राह्मणः = वर्णानां = चतुर्णामपि वर्णानां गुरुः भवति, एकः पतिः = केवलं पतिरेव, स्त्रीणां = नारीणां गुरुः भवति, किन्तु अभ्यागतः = अतिथि: सर्वस्य = सर्वस्यापि लोकस्य गुरुः भवति ।।६४।।
भाषा-ब्राह्मण, क्षत्रिय और वैश्यों का गुरू अग्नि है, तथा ब्राहमण चारों वर्णो का गुरू है, स्त्रियों का गुरू एकमात्र पति है, तथा अतिथि सबका गुरू है।।६४।।