इतेरेषु तु शिष्टेषु /itereshu tu shishtesu shloka niti
इतेरेषु तु शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः । ।३१।।
प्रसंग:- आसुरादिविवाहजातसन्ततेः दोषान् निर्दिशति-
अन्वयः- इतरेषु तु शिष्टेषु दुर्विवाहेषु नृशंसानृतवादिनः ब्रह्मधर्मद्विषः सुताः जायन्ते।।३१।।
व्याख्या- इतरेषु ब्राह्मणमादिभ्यो भिन्नेषु, शिष्टेषु = आसुर-गन्धर्व - पैशाचराक्षसेषु चतुर्पु, दुर्विवाहेषु, नृशंसाश्च = क्रूराश्च अनृतवादिनश्च-असत्य वादिनः ब्रह्म च वेदश्च, धर्मश्च-यागादिश्च ब्रह्मधर्मो तौ द्विषन्ति ये तथाभूताः वेदादि-दृष्टारः सुता:-पुत्राः, जायन्ते भवन्ति ।।३१।।
भाषा- उक्त ब्राह्मणमादि चार विवाहों के अतिरिक्त बचे हये आसुरादि चार दुष्ट विवाहों में क्रूरकर्म करने वाले, मिथ्यवादी और यागादि धर्म का द्वेष करने वाले पुत्र होते हैं। ।३१।।