रूपसत्वगुणोपेता /rupatva gunopeta shloka niti
रूपसत्वगुणोपेता धनवन्तो बहुश्रुताः ।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः । ।३० ।।
प्रसंग:- ब्राह्मादिविवाहैर्जातसन्ततेः वैशिष्ट्यं वर्णयति-
अन्वयः- रूपसत्वगुणोपेताः धनवन्तः, बहुश्रुताः पर्याप्तभोगाः, धर्मिष्ठा जायन्ते, शतं च समाः जीवन्ति ।।३०।।
व्याख्या-रूप = मनोहरा क तिः, सत्वं वेदाभ्यास:प्राजापत्यादितपश्चरणं शास्त्रार्थावबोधः, इन्द्रियसंयमः, धर्मानुष्ठानम - आत्म यानपरते त्याद्यात्मकं सत्वं, गुणा:-दयादाक्षिण्यादयः, तैरुपेता:-युक्ताः । निवन्तः-धनिनः, बहुश्रुता:-अभ्यस्तबहुशास्त्राः, पर्याप्तः भोगो येषां ते पर्याप्तभोगा. = यथेप्सितवस्त्रगन्धलेपनादिभोगशालिनः, धर्मिष्ठा: धार्मिकाः च, जायन्ते शतं च समाः वर्षाणि जीवन्ति । ।३०।।
भाषा- सुन्दर आकतिवाले सत्व और दयादाक्षिण्यादि गुणों से यक्त धनी, अनेक शास्त्र के अभ्यासी, इच्छानुसार विविधभोगों को भोगने वाले धार्मिक ऐसे पुत्र होते हैं और वे सौ वर्ष तक जीवित रहते हैं। ।३०।।