न धर्मशास्त्रं पठतीति कारणं/na dharma shastram shloka niti
न धर्मशास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः।
स्वभाव एवान तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः।।५।।
प्रसंग:- दुरात्मनां स्वभावोऽपरिवर्तनीय इति ब्रूते-
अन्वयः- दुरात्मनः (स्वभावपरिवर्तने) धर्मशास्त्रं पठति इति कारणं न भवति वेदाध्ययनमपि च (कारणं) न (भवति) किन्तु, अत्र तथा स्वभाव एव अतिरिच्यते, यथा गवां पयः प्रकृत्या मधुरं भवति ।।५।।
व्याख्या- दुष्टः आत्मा स्वभावः आचारो वा यस्य सः तस्य दुरात्मनः (स्वभावपरिवर्तने) धर्मशास्त्रं धर्मप्रतिपादकं शास्त्रं पठति इति कारणं न, वेदाध्ययनं वेदानां ऋग्यजः सामाथर्वणाम अध्ययनं अपि कारणं न भवति, किन्तु स्वभाव एव अत्र तथा तेन प्रकारेण अतिरिच्यते विशिष्यते, यथा-कटु-कषायाम्लादिरसबहुलतृण भक्षणेऽपि गवां पयः प्रकृत्या स्वभावेनैव मधुरं भवति।।
भाषा- दुष्ट व्यक्ति के स्वभाव परिवर्तन में) धर्मशास्त्र का पढ़ना अथवा वेदाध्ययन कारण नहीं हो सकता, यहां स्वभाव की प्रधानता उसी प्रकार रहती है जैसे कि कडुए कसैले आदि अनेक रसयुक्त रूखे घासों के खाने पर भी गाय का दूध स्वभावतः मधुर ही हुआ करता है।।५।।