न कश्चित्कस्यचिन्मित्रं /na kashchita kasya chinmitram shloka niti
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः ।
व्यवहारेण मित्राणि जायन्ते रिपवस्तथा ।।३६ ।।
प्रसंग:- शत्रुमित्रभावस्य कारणं व्यवहार एवेति निर्दिशति-
अन्वयः- कश्चित् कस्यचित् मित्रम् न, कश्चित् कस्यचित् रिपु न, व्यवहारेण मित्राणि तथा रिपवः जायन्ते ।।३६।।
व्याख्या - कस्यचित् अपि जनस्य कश्चित अपि जनः मित्रं न भवति, न च कस्यचित् जनस्य कश्चित् जनः रिपुः = शत्रुः भवति, व्यवहारेण (एव) मित्राणि तथा रिपवः = शत्रवः जायन्ते = भवन्तीति भावः ।।३६।।
भाषा - किसी भी व्यक्ति का न तो कोई मित्र है और न किसी व्यक्ति का कोई शत्रु है, यह तो व्यवहार से मित्र और शत्रु होते हैं । ।३६ ||