परोपदेशे पण्डित्यं /paro padeshe pandityam shloka niti
परोपदेशे पण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्मे स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ।।६२।।
प्रसंग:- उपदेशापेक्षयाचरणस्य महत्वं प्रतिपादयति-
अन्वयः- सर्वेषां नृणां परोपदेशे पाण्डित्यं सुकरं, धर्मे स्वीयम् अनुष्ठानं तु कस्यचित् महात्मनः भवति।।६२।।
व्याख्या- सर्वेषां नृणाम् परस्मै परस्य वा उपदेशः तस्मिन् पाण्डित्यं सुकरं सुलभं भवतीति शेषः, किन्तु धर्मे = धर्मविषये, स्वीयम् = स्वकीयं अनुष्ठानम् आचरणं कस्यचित् एव महात्मनः भवति । परोपदेष्टारः बहवः सन्ति, आचरणपरायणास्तु विरला एव भवन्तीति भावः ।।६२।।
भाषा-दूसरो को उपदेश देने में पाण्डित्य समझना सहज है किन्तु अपने धर्म का स्वयं आचरण बिरला ही कोई महात्मा करता है।।६२ ।।