पटुत्वं सत्यवादित्वं /patutvam satya vaditvam shloka niti
पटुत्वं सत्यवादित्वं कथायोगेन बुध्यते।
अस्तब्धत्वमचापल्यं प्रत्यक्षेणावगम्यते।।५७।।
प्रसंग:- मित्रगुणप्रत्यक्षप्रकारं निर्दिशति-
अन्वयः- पटुत्वं, सत्यवादित्वं कथायोगेन बुध्यते, अस्तब्धत्वम् अचापल्यं प्रत्यक्षेण अवगम्यते।।५७।।
व्याख्या- पटुत्वं = चातुर्य, सत्यवादित्वं = सत्यवादिता, कथायोगेन = कथाप्रसंगेन, बुध्यते = अवगम्यते, अस्तब्धत्वं = अजाड्यं, अचापल्यम, = अचांचल्यं, प्रत्यक्षेण = दर्शनेनैव अवगम्यते = बुध्यते । ५७।।
भाषा - मनुष्य की चतुरता और सत्यावादिता बातचीत के प्रसंग से मालूम पड़ जाती है और उसकी काम करने की लगन तथा गम्भीरता उसे प्रत्यक्ष देखने से ही मालूम पड़ती है। ।५७।।