पूर्वजन्मकृतं कर्म /purvajanma kratam karma shloka niti
पूर्वजन्मकृतं कर्म तदैवमिति कथ्यते।
तस्मात्पुरुषकारेण यत्नं कुर्यादतन्द्रितः । ।२४।।
प्रसंग:- कर्मभाग्ययोः ऐक्यं प्रतिपादयति -
अन्वयः- यत् पूर्वजन्मकृतं कर्म (भवति) तत् दैवं (भवति) इति विद्वद् भिः कथ्यते, तस्मात् (जनः) अतन्द्रितः (सन्) पुरुषकारेण यत्न कुर्यात् ।।२४।।
व्याख्या- पूर्वञ्च तज्जन्म पूर्वजन्म तस्मिन् कृतं पूर्वजन्मकृतं = प्राग्जन्मन्यनुष्ठितम् यत् कर्म, तत = तदेव, दैवं = भाग्यमिति (विद्वदभिः) कथ्यते, तस्मात् = पुरुषकारेण विना दैवस्य सिद्वेरभावात जनः अतन्द्रितः = अनलसः सन पुरुषकारेण = पुरुषार्थमधिष्ठाय, यत्नं = प्रयत्नं कुर्यात् ।।२४।।
भाषा - पूर्वजन्म के किये हुये कर्म ही भाग्य कहलाते हैं इसलिये पुरुष को आलस्य रहित होकर उद्योग करना चाहिये।।२४।।