यथा टेकेन चक्रेण /yatha tekena chakrena shloka niti
यथा टेकेन चक्रेण न रथस्य गतिर्भवेत् ।
तथा पुरुषकारेण विना दैवं न सिद्धयति ।।२३।।
प्रसंग:- पुरुषकारस्य भाग्यफलप्रदातृत्वं निरूपयति-
अन्वयः- यथा हि एकेन चक्रेण रथस्य, गतिः न भवेत् एवं पुरुषकारेण विना दैवं न सिद्ध्यति ।।२३।।
व्याख्या- यथा हि एकेन चक्रेण रथांगेन रथस्य गति: गमनं न भवेत न भवति तथा परुषकारेण-पौरुषेण विना दैवं भाग्यं, न सिद्धयातफलति।
भाषा - जिस प्रकार एक पहिये से रथ नहीं चलता, उसी प्रकार विना पुरुषार्थ किये भाग्य नहीं फलता ।।२३।।