रूपयौवनसम्पन्ना /rupa yauvan sampanna shloka niti
रूपयौवनसम्पन्ना विशालकुलसंभवाः।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ।।२६।।
प्रसंग:- विद्यैव शोभाधायिका न तु रूपादिकमिति वर्णयति-
अन्वयः- रूपयौवनसम्पन्नाः विशालकुलसंभवाः (अपि) विद्याहीनाः (पुरुषाः) निर्गन्धाः किंशुका इव न शोभन्ते।।२६।।
व्याख्या- रूपं = सौन्दर्य, यौवनं = तारुण्यं ताभ्यां सम्पन्नाः, विशालं श्रेष्ठं यत कलं तस्मिन सम्भवाः = समुत्पन्नाः अपि विद्याहीनाः = विटा पुरुषाः, निर्गन्धाः = गन्धरहिताः किंशुकाः = पलाशपुष्पाणीव न शोभन्ते ।।
भाषा- सुंदरता एवं यवावस्था से युक्त तथा अच्छे कुल में जन्म होने पर भी विद्याहीन पुरुष गन्धरहित पलाश के फूल के सामान शोभा नहीं देते।