सम्पदि यस्य न हर्षों /sampadi yasya na harsho shloka niti
सम्पदि यस्य न हर्षों विपदि विषादो रणे च धीरत्वम्।।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ।।१५।।
प्रसंग:- उत्तमपुत्रस्वरूपं निरूपयति
अन्वयः- सम्पदि यस्य न हर्षः (भवति) विपदि विषाद: न (भवति) रणे च धीरत्वं (भवति), तं भुवनत्रयतिलकं विरलं सुतं (काचिदेव) जननी जनयति ।
व्याख्या - सम्पदि = सम्पतौ सत्याम् यस्य न हर्षः, विपदि = विपत्तौ च न, विषादः = खेदः, रणे संग्रामे धीरत्वं = धैर्यम्, एवभूतं भुवनानां = स्वर्गमर्त्यपातालानां त्रयं तस्य तिलकस्तं भुवनत्रयतिलकं = त्रिलोकरत्नमित्यर्थः सतं = पत्रं विरलं = काचिदेव जननी = माता जनयति = प्रसते ।।१५।।
भाषा - जिसको सम्पति में न प्रसन्नता होती है, न विपत्ति में दुःख होता है और जो युद्ध में भी धैर्य को नहीं छोड़ता है। ऐसे त्रिभूवन के तिलक के समान विरले ही पुत्र को माता जन्म देती है।।१५।