स्थानमुत्सृज्य गच्छन्ति /sthan musrijya gachhanti shloka niti
स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषाः गजाः।
तत्रैव निधनं यान्ति काका: कापुरुषाः मृगाः ।।६।।
प्रसंग :- महान्त एव स्थानत्यागिनो भवन्तीति उपदिशति-
अन्वयः - सिंहाः सत्पुरुषाः गजाः स्थानम् उत्सृज्य गच्छन्ति, काकाः का पुरुषाः मृगाः तत्रैव निधनं यान्ति ।।६०।।
व्याख्या- सिंहाः = मृगेन्द्राः सत्पुरुषा = सज्जनाः, गजाः = हस्तिनश्च, स्थानं = स्वस्थानम्, उत्सृज्य = त्यक्त्वा गच्छन्ति, काकाः = वायसाः कापुरूषाः = अकर्मण्याः जनाः मृगाश्च तत्रैव = स्वस्थाने एव निधनं = मरणं, यान्ति = प्राप्नुवन्ति ।।६० ।।
भाषा- क्योंकि सिंह, सत्पुरुष और हाथी अपना-अपना स्थान छोड़कर अन्यत्र चले जाते हैं, लेकिन कौवे, मनुष्य और मृग ये अपने एक ही स्थान पर रहते-रहते मर जाते हैं। ६० ।।