यदि नित्यमनित्येन /yadi nitya manityena shloka niti
यदि नित्यमनित्येन निर्मलं मलवाहिना।
यशःकायेन लभ्येत तन्न लब्धं भवेन्नु किम् ।।२६।।
प्रसंग:- शरीरं परित्यज्य यश उपलब्धेर्महत्वं वर्णयति-
अन्वयः- यदि अनित्येन मलवाहिना कायेन नित्यं निर्मलं यशः लभ्येत, किं तत् लब्धं न भवेन्न।।२६।।
व्याख्या- यदि अनित्येन = नश्वरेण, मलवाहिना = मूत्रपूरीषादिमलाधारण कायेन = देहेन, नित्यं = अविनाशि, निर्मल = शुभं यशः = कीर्तिः, लभ्येत = प्राप्येत, किं तत् = तर्हि, जनैः, लब्धं = प्राप्तं, न भवेत् वस्तु । अपितु सर्वमेव लब्धं भवेदिति शेषः।।२६।।
भाषा- और भी देखों-यदि नाशवान और मलों को धारण करने वाले इस घणित शरीर से स्थायी और निर्मल यश मिले तो क्या नहीं मिला?