यत्र विद्वज्जनो नास्ति/yatra vidwat jano nasti shloka niti
यत्र विद्वज्जनो नास्ति श्लाध्यस्तत्राल्पधीरपि।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।।३७ ।।
प्रसंग :- अल्पबुद्धेरपि विज्ञजनाभावे सम्मानो भवतीति निरूपयति-
अन्वयः-यत्र विद्वज्जनः नास्ति तत्र अल्पधीः अपि श्लाध्यः, निरस्तपादपे देशे एरण्डः अपि द्रुमायते ।।३७।।
व्याख्या- यत्र यस्मिन् देशे विद्वज्जनः =पण्डितः नास्ति तत्र अल्पा धीर्यस्य सः अल्पधीः अपि विद्याहीनोऽपीति भावः । श्लाघ्यः प्रशंसाहः भवति (यथा पादैः मूलैः पिबतीति पादपः निरस्ताः पादपा यस्मात् सः निरस्तपादपः तस्मिन देशे-वृक्षरहिते देशे इति भावः । एरण्डः अपि एरण्डनामा अनुपायोगी वृक्षः अपि द्रमायते वृक्षत्वेन गण्यते। यत्र देशे महान्तो वृक्षाः न सन्ति तत्र कुत्सितोऽप्येरण्ड: विशिष्टवृक्षत्वेन गण्यते इति भावः । ।३७।।
भाषा- जहाँ विद्वान लोग नहीं होते वहाँ अल्पबुद्धिवाला मूर्ख भी पण्डित के समान आदरणीय हो जाता है। जैसे जिस देश में वृक्ष नहीं होते वहाँ एरण्ड (रेड) भी वृक्षों में गणना होने लगती है। ।३७ ।।