Adhidevata Pujan Mantra Lyrics अधिदेवतानां स्थापनम्
शिवः शिवा गुहो विष्णुर्ब्रह्मेन्द्रयमकालकाः ।
चित्रगुप्तोऽथ भान्वादिदक्षिणे चाऽधिदेवताः ।।
(विशेष पूजा, यज्ञ, अनुष्ठान इत्यादि में नवग्रहों की स्थपाना करने के उपरान्त सूर्य आदि ग्रहों के दाहिने भाग में नीचे लिखे क्रमानुसार अधिदेवताओं की स्थपना अधोलिखित मंत्र से दाहिने हाथ से ग्रहमण्डल के दक्षिण पार्श्व में अक्षत छोड़ते हुए करें ।)
ईश्वरम् --
ॐ त्र्यम्बकं य्यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव वन्धनान्मृत्योर्मुक्षीय माऽमृतात् ।।
पञ्चवक्त्रं वृषारूढमुमेशं च त्रिलोचनम् ।
आवाहयामीश्वरं तं खट्वाङ्गवरधारिणम् ॥
ॐ भूर्भुवः स्वः ईश्वर इहागच्छ इह तिष्ठ ईश्वराय नमः, ईश्वरमावाहयामि स्थापयामि ।
(सूर्य के दायें भाग में)
उमाम् --
ॐ श्रीश्श्च ते लक्ष्मीश्श्च पत्न्याबहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ ळ्यात्तम् । इष्ण्णन्निषाणाम्मु म ऽइषाण सर्व्वलोकं म ऽइषाण ।।
हेमाद्रितनयां देवीं वरदां शंकरप्रियाम् ।
लम्बोदरस्य जननीमुमामावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः उमे इहागच्छ इट तिष्ठ उमायै नमः, उमामावाहयामि स्थापयामि ।
(चन्द्रमा के दायें भाग में)
स्कन्दम् --
ॐ यदक्क्रन्दः प्रथमं जायमान ऽउद्यन्त्समुद्रादुत वा - पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातन्ते ऽअर्व्वन् ।
रुद्रतेजः समुत्पन्नं देवसेनाग्रगं विभुम् ।
षण्मुखं कृतिकासूनुं स्कन्दमावाहयाम्यहम् ।।
(मंगल के दायें भाग में )
ॐ भूर्भुवः स्वः स्कन्देहागच्छ इह तिष्ठ स्कन्दाय नमः, स्कन्दमावाहयामि स्थापयामि ।
विष्णुम् --
ॐ व्विष्णो रराटमसि व्विष्णोः श्नप्प्त्रे स्थो व्विष्णोः स्यूरसि व्विष्णोर्धुवोऽसि । व्वैष्णवमसि विष्णवे त्वा ।
देवदेवं जगन्नाथं भक्तानुग्रहकारकम् ।
चतुर्भुजं रमानाथं विष्णुमावाहयाम्यहम् ॥
(बुध के दायें भाग में)
ॐ भूर्भुवः स्वः विष्णो इहागच्छ इह तिष्ठ विष्णवे नमः विष्णुमावाहयामि स्थापयामि ।
ब्रह्माणम् --
ॐ आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्च्चसी जायतामा राष्ट्रे राजन्यः शूर ऽइषव्योतिव्याधी महारथो जायतां दोग्ग्ध्री धेनुर्व्वोढानड्वानाशुः सप्तिः पुरन्धिर्योषा जिष्ण्णू रथेष्ठाः सभेयो युवाऽस्य यजमानस्य वीरो जायतां निकामे निकामे नः पर्यन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ।
कृष्णाजिनाऽम्बरधरं पद्मसंस्थं चतुर्मुखम् ।
वेदाधारं निरालम्बं विधिमावाहयाम्यहम् ।।
(वृहस्पति के दायें भाग)
ॐ भूर्भुवः स्वः ब्रह्मन् इहागच्छ इहतिष्ठ ब्रह्मणेनमः । ब्रह्माणमावाहयामि स्थापयामि ।
इन्द्रम् --
ॐ सयोषाऽइन्द्र सगणो मरुद्भिः सोमं पिब व्वृत्रहा शूर विद्वान् । जहिशत्रूँ२।। रप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ।
देवराजं गजारूढं शुनासीरं शतक्रतुम् ।
वज्रहस्तं महाबाहुमिन्द्रमावाहयाम्यहम् ॥
(शुक्र के दायें भाग में)
ॐ भूर्भुवः स्वः इन्द्रेहागच्छ इहतिष्ठ इन्द्राय नमः, इन्द्रमावाहयामि स्थापयामि।
यमम् --
ॐ जमाय त्वागिरस्वते पितृमते स्वाहा । स्वाहा घर्माय स्वाहा पित्रे ।
धर्मराजं महावीर्यं दक्षिणादिक्पतिं प्रभुम् ।
रक्तक्षणं महाबाहुं यममावाहयाम्यहम् ।।
ॐभूर्भवः स्वः यम इहागच्छ इह तिष्ठ यमाय नमः, यममावाहयाम्यहम् ।
(शनि के दायें भाग में ।)
कालम् -
कार्षिरसि समुद्रस्य त्त्वाक्षित्त्या ऽउन्नयामि ।
समापोऽअद्भिरग्मत समोषधीभिरोषधीः ।
अनाकारमनन्ताख्यं वर्तमानं दिने दिने ।
कलाकाष्ठादिरूपेण कालमावाहयाम्यहम् ।।
(राहु के दायें भाग में)
ॐ भूर्भुवः स्वः कालेहागच्छ इह तिष्ठ कालाय नमः, कालमावाहयामि स्थापयामि ।
चित्रगुक्तम् -
ॐ चित्रावसो स्वस्ति ते पारमशीय ।
धर्मराजसभासंस्थं कृताऽकृत-विवेकिनम् ।
आवाहयेचित्रगुप्तं लेखनीपत्रहस्तकम् ।।
ॐ भूर्भुवः स्वः चित्रगुप्तेहागच्छ इह तिष्ठ चित्रगुप्ताय नमः, चित्रगुप्तमावाहयामि स्थापयामि ।
(केतु के दायें भाग में)
इति अधिदेवता पूजनन्