Navagrah Pujan All Mantra Lyrics "नवग्रहादिदेवानाम् पूजनम्"
Navagrah Pujan All Mantra Lyrics
ईशान्यां चतुस्त्रिंशदङ्गुलोञ्चसमचतुरस्रस्य ग्रहपीठस्य समीपे सपत्नीको यजमानः उपविश्य आचमनं प्राणायामञ्च कुर्यात् ।
ततो हस्ते जलं गृहीत्वा मया प्रारब्धस्य अमुककर्मणः साङ्गता सिद्धयर्थम् अस्मिन् नवग्रहपीठे अधिदेवताप्रत्यधिदेवतापञ्चलोकपालवास्तुक्षेत्रपालदशदिक्पालदेवतासहितानाम् आदित्यादिनवग्रहाणाम् तत्तन्मण्डले स्थापनप्रतिष्ठा पूजनानि करिष्ये ।
इति संकल्प्य ।
वामहस्ते अक्षतान् गृहीत्वा दक्षहस्तेन तत्तत्स्थाने आदित्यादिदेवतानाम् आवाहनं कुर्यात् ।।
(बायें हाथ में अक्षत लेकर दाहिने हाथ से प्रत्येक मन्त्र के बाद रेखाङ्कितग्रहों के स्थान पर अक्षत छोड़ें ।)
सूर्यम् (मण्डल के मध्य में) --
ॐ आकृष्णेनरजमा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ।
(यजु• ३३ । ४३)
जपा-कुसुम-संकाशं काश्यपेयं महाद्यूतिम्।
तमोऽरिं पर्वपापघ्नं सूर्यमावाहयाम्यहम् ।।
ॐ भूर्भुवः स्वः कलिङ्गदेशोद्भव काश्वपसगोत्र रक्तवर्ण भो सूर्य : इहागच्छ इह तिष्ठ, सूर्याय नमः, सूर्यमावाहयामि स्थापयामि ।
चन्द्रम् (अग्निकोण में) --
ॐ इमं देवा ऽअसपत्क्न गुंग सुवद्ध्वं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय । इमममुष्ष्य पुत्रममुख्यै व्विश ऽएष वोऽमी राजा सोमोऽस्माकं ब्राह्मणानां गुंग राजा |
दधि-शंख-तुषाराभं क्षीरोदार्णवसम्भवम् ।
ज्योत्स्नापतिं निशानाथं सोममावाहयाम्यहम् ।।
ॐ भूर्भुवः स्वः यमुनातीरोद्भव आत्रेयसगोत्र शुक्लवर्ण भो सोम ! इहा गच्छ इह तिष्ठ, सोमाय नमः सोममावाहयामि स्थापयामि ।
भौमम् (दक्षिण में) --
ॐ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपा गुंग रेता गुंग सि जिन्वति ।
(यजु० ३ । १२)
धरणीगर्भसम्भूतं विद्युत्तेजसम-प्रभम् ।
कुमारं शक्तिहस्तं च भौममावाहयाम्यहम् ।।
ॐ भूर्भुवः स्वः अवन्तिकापुरोद्भव भरद्वाजसगोत्र रक्तवर्ण भो भौम ! इहागच्छ इह तिष्ठ भौमाय नमः, भौममावाहयामि स्थापयामि ।
बुधम् (ईशान कोण में) --
ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते स गुंग सृजेथा मयं च । अस्मिन्सधस्थे अध्युत्तरस्मिन् विश्वेदेवा यजमानश्च सीदत । ।
(यजु० १५ । ५७)
प्रियङ्गुकलिकाभासं रूपेणाऽप्रतिमं बुधम् ।।
सौम्यं सौम्यगुणोपेतं बुधमावाहयाम्यहम् ।।
ॐ भूर्भुवः स्वः मगधदेशोद्भव आत्रेयसगोत्र हरितवर्ण भो बुध ! इहागच्छ, इहतिष्ठ बुधायनमः, बुधमावाहयामि स्थापयामि ।
Navagrah Pujan All Mantra Lyrics
बृहस्पतिम् (उत्तर मे) --
ॐ बृहस्पते ऽअति यदर्यो ऽअर्हाद्युमद्विभाति क्क्रतु मज्जनेषु । यद्दीदयच्छवस ऽऋतप्रजात तदस्ममासु द्रविणं धेहि चित्रम्।
देवानां च मुनीनां च गुरुं काञ्चन सन्निभम् ।
वन्द्यभूतं त्रिलोकानां गुरुमावाहयाम्य
ॐ भूर्भुवः स्वः सिन्धुदेशोद्भव आङ्गिरसगोत्र पीतवर्ण भो बृहस्पते । इहागच्छ इहतिष्ठ बृहस्पतये नमः, बृहस्पतिमावाहयामि स्थापयामि।
शुक्रम् (पूर्व. में) --
ॐ अन्नात्परिस्रुतो रसं ब्रह्मणा व्यपिबत्क्षत्रं पयः सोमं प्रजापतिः । ऋतेन सत्त्यमिन्द्रियं व्विपान गुंग शुक्क्रमन्धस ऽइन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ।।
हिमकुन्द - मृणालाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्रप्रवक्तारं शुक्रमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः भोजकटदेशोद्भव भार्गवसगोत्र शुक्लवर्ण भो शुक्र इहागच्छ इह तिष्ठ शुक्राय नमः, शुक्रमावाहयामि स्थापयामि ।
Navagrah Pujan All Mantra Lyrics
शनिम् (पश्चिम में) --
ॐ शं नो देवीरभिष्टय ऽआपो भवन्तु पीतये । शंय्योरभिस्रवन्तु नः ।।
नीलाम्बुजसमाभासं रविपुत्रं यमाग्रजम् ।
छाया मार्तण्डसम्भूतं शनिमावाहयाम्यहम् ।।
ॐ भूर्भुवः स्वः सौराष्ट्रदेशोद्भव काश्यपसगोत्र कृष्णवर्ण भो शनैश्चर ! इहागच्छ इहतिष्ठ शनैश्चरमावाहयामि स्थापयामि ।।
राहुम् (नैर्ऋत्य कोण में) --
ॐ कया नश्श्चित्र ऽआभुवदूती सदावृधः सखा । कया शचिष्ठ्ठया वृता ।।
अर्द्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।
सिंहिकागर्भसम्भूतं राहुमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः राठिनापुरोद्भव पैठिनसगोत्र कृष्णवर्ण भो राहो ! इहा गच्छ इह तिष्ठ राहवे नमः, राहुमावाहयामि स्थापयामि ।
केतुम् (वायव्य कोण में) --
ॐ केतुं कृण्ण्वन्नकेतवे पेशो मर्या ऽअपेशसे । समुषद्भिरजायथाः ।।
पलाशधूप्रसंकाशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं केतुमावाहयाम्यहम् ।।
ॐ भूर्भुवः स्वः अन्तर्वेदिसमुद्भव जैमिनिसगोत्र कृष्णवर्ण भो केतो ! इहागच्छ इह तिष्ठ केतवे नमः, केतुमावाहयामि स्थापयामि ।।
Navagrah Pujan All Mantra Lyrics
इति नवग्रह पूजनम्