F Swasti Vachan lyrics संपूर्ण स्वस्ति वचन मंत्र - bhagwat kathanak
Swasti Vachan lyrics संपूर्ण स्वस्ति वचन मंत्र

bhagwat katha sikhe

Swasti Vachan lyrics संपूर्ण स्वस्ति वचन मंत्र

Swasti Vachan lyrics संपूर्ण स्वस्ति वचन मंत्र

 Swasti Vachan lyrics संपूर्ण स्वस्ति वचन मंत्र 



स्वस्तिवाचनम्

ॐ आनो भद्राः क्रतवो यन्तु विश्वतो दब्धासोऽअपरीतास उद्भिदः । देवानो यथा सदमिद्वृधेऽअसन्नप्रायुवो रक्षितारो दिवे दिवे || देवानाम्भद्रा सुमतिऋजूयतां देवाना रातिरभि नो निवर्त्तताम् । देवाना सख्यमुप सेदिमा व्वयन्देवा न आयुः प्रतिरन्तु जीवसे || तान्पूर्व्वया निविदा हूमहे व्वयं भगम्मित्रमदितिन्दक्क्षमस्रिधम् । अर्यमणं वरुण सोममश्विना सरस्वती नः सुभगामयस्करत् ॥ तन्नो व्वातो मयोभु व्वातु भेषजन्तन्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतन्धिष्ण्ण्या युवम् ॥


तमीशानञ्जगतस्तस्त्थुषस्य्पतिन्धियञ्जिवमवसे हूमहे व्वयम् । पूषानो यथा व्वेद - सामसद्वृधे रक्क्षिता पायुरदब्धः स्वस्तये || स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽअरिष्टनेमिः स्वस्ति नो बृहस्पतिर्द्दधातु || पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्ग्मयः । अग्ग्निजिह्वा मनवः सूरचक्क्षसो विश्वे नो देवाऽअवसागमन्त्रिह ॥


भद्रंकर्णेभिः शृणुयाम देवा भद्रम्पश्येमाक्क्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ शतमिन्नुशरदोऽअन्ति देवा यत्रा नश्चक्रा जरसन्तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मानो मद्ध्या रीरिषतायुर्गन्तोः || अदितिर्द्यौरदितिरन्तरिक्क्षमदितिर्माता स पिता स पुत्रः | विश्वेदेवाऽअदितिः पञ्च जनाऽअदितिर्जातमदितिर्जनित्त्वम् ॥


द्यौः शान्तिरन्तरिक्क्षथं शान्तिः पृथिवी शान्ति - रापः शान्तिरोषधयः शान्ति । वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्व्व शान्तिः शान्तिरेव शान्तिः सामाशान्तिरेधि ॥ यतो यतः समीहसे ततो नोऽअभयं कुरु । शन्नः कुरुप्रजाब्भ्योऽभयन्नः पशुब्भ्यः || विश्वानि देवसवितर्दुरितानि परासुव । यद्भद्रं तन्नऽआसुव॥

 Swasti Vachan lyrics संपूर्ण स्वस्ति वचन मंत्र 


Ads Atas Artikel

Ads Center 1

Ads Center 2

Ads Center 3