Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित
विशिष्ट पूजा-प्रकरण
किसी भी यज्ञादि महोत्सवों, पूजा- अनुष्ठानों अथवा नवरात्र - पूजन, शिवरात्रिमें शिव-पूजन, पार्थिव-पूजन, रुद्राभिषेक, सत्यनारायण - पूजन, दीपावली - पूजन आदि कर्मोंमें प्रारम्भमें स्वस्तिवाचन, पुण्याहवाचन, गणेश-कलश-नवग्रह तथा रक्षा-विधान आदि कर्म सम्पन्न किये जाते हैं, इसके अनन्तर प्रधान- पूजा की जाती है।
अतः यहाँ भी वह पूजाविधान दिया गया है। नान्दीमुख
श्राद्ध तथा विशेष अनुष्ठानोंके प्रधान देवताका पूजन-विधान यहाँ नहीं दिया गया है, अन्य
पद्धतियोंको देखकर करना चाहिये ।
देव-पूजनमें वेद-मन्त्र, फिर आगम-मन्त्र और बादमें नाम-मन्त्रका उच्चारण किया जाता है। यहाँ इसी क्रमका आधार लिया गया है ।
जिन्हें वेद-मन्त्र न आता हो, उन्हें आगम- मन्त्रोंका प्रयोग करना चाहिये और जो
इनका भी शुद्ध उच्चारण न कर सकें, उनको नाममन्त्रोंसे पूजन करना चाहिये ।
Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित
पूजासे पहले पात्रोंको क्रमसे यथास्थान रखकर
पूर्व दिशाकी ओर मुख करके आसनपर बैठकर तीन बार आचमन करना चाहिये-
ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ
माधवाय नमः । आचमनके पश्चात् दाहिने हाथके अँगूठेके मूलभागसे 'ॐ हृषीकेशाय नमः, ॐ गोविन्दाय नमः' कहकर ओठोंको
पोंछकर हाथ धो लेना चाहिये । तत्पश्चात् निम्नलिखित मन्त्रसे पवित्री धारण करे-
'पवित्रे स्थो वैष्णव्यौ सवितुर्वः
प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य
रश्मिभिः।
तस्य ते पवित्रपते पवित्रपूतस्य यत्काम:पुने तच्छकेयम्।
पवित्री धारण करनेके पश्चात्
प्राणायामकरे। इसके बाद बायें हाथमें जल लेकर दाहिने हाथसे अपने ऊपर और पूजा-सामग्रीपर
छिड़कना चाहिये –
ॐ अपवित्रःपवित्रो वा सर्वावस्थां
गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥
ॐ •पुण्डरीकाक्षः पुनातु, ॐ
पुण्डरीकाक्षः पुनातु, ॐ पुण्डरीकाक्षः पुनातु ।
तदनन्तर पात्रमें अष्टदल कमल बनाकर यदि गणेश-
अम्बिकाकी मूर्ति न हो तो सुपारीमें मौली
लपेटकर अक्षतपर स्थापित कर देनेके बाद हाथमें अक्षत और पुष्प लेकर स्वस्त्ययन पढ़ना
चाहिये ।
ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । देवा नो
यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥ देवानां भद्रा
सुमतिर्ऋजूयतां देवाना रातिरभि नो निवर्तताम् ।
देवानांऽ सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे । तान्पूर्वया निविदा
हूमहे वयं भगं मित्रमदितिं दक्षमस्त्रिधम् । अर्यमणं वरुणऽ सोममश्विना सरस्वती नः
सुभगा मयस्करत् ॥
तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः । तद्
ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥ तमीशानं
जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद् वृधे
रक्षिता पायुरदब्धः स्वस्तये ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा
विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।
पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः । अग्निजिह्वा
मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह ॥ भद्रं कर्णेभिः शृणुयाम देवा भद्रं
पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा - सस्तनूभिर्व्यशेमहि देवहितं
यदायुः ॥ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
अदितिर्द्यौ रदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्च
जना अदितिर्जातमदितिर्जनित्वम् ।। (शु य० २५ । १४-२३)
द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः
। वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव
शान्तिः सा मा शान्तिरेधि ।।(शु० य० ३६ । १७)
यतो यतः समीहसे ततो नो अभयं कुरु । शं नः कुरु प्रजाभ्योऽभयं नः
पशुभ्यः ॥ सुशान्तिर्भवतु ।। (शु य० ३६ । २२)
ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव॥
ॐ गणानां त्वा गणपति ग्वँग् हवामहे प्रियाणां त्वा प्रियपति ग्वँग्
हवामहे निधीनां त्वा निधीपति ग्वँग् हवामहे वसो मम। आहमजानि गर्भधमा त्वमजासि
गर्भधम्॥
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन। ससस्त्यश्वकः सुभद्रिकां
काम्पीलवासिनीम्॥
श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमा
महेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः ।
मातृ-पितृ-चरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः ।
ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो
देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः ।
श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां
नमः । उमामहेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः ।
मातृपितृचरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो
नमः वास्तुदेवताभ्यो
नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः
। ॐ सिद्धिबुद्धिसहिताय श्रीमन्महागणाधिपतये नमः ।
- गणेश पूजन विधि मंत्र सहित
- स्वस्तिवाचनम् मन्त्र अर्थ सहित
- षोडशोपचार पूजन विधि मंत्र
- लक्ष्मी मंत्र: धन प्राप्ति के लिए
- लक्ष्मी पूजन विधि मंत्र सहित
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं देवं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
॥
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥
सर्वमङ्गलमाङ्गल्ये! शिवे! सर्वार्थसाधिके।
शरण्ये त्र्यम्बके! गौरि नारायणि नमोऽस्तु ते ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं देवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं
स्मरामि ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिध्रुवा नीतिर्मतिर्मम ॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥
स्मृतेः सकलकल्याणं भाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥
विश्वेशं माधवं दुण्ढिं दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
गणेशाम्बिकाभ्यां नमः ॥
हाथमें लिये अक्षत-पुष्पको गणेशाम्बिकापर चढ़ा दे
। इसके बाद दाहिने हाथमें
जल, अक्षत
और द्रव्य लेकर संकल्प करे ।
निष्काम संकल्प
ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो
महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य ब्रह्मणोऽह्नि द्वितीयपरार्धे
श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे
जम्बूद्वीपे भारतवर्षे
आर्यावर्तेकदेशे.... नगरे /ग्रामे / क्षेत्रे (अविमुक्तवाराणसीक्षेत्रे आनन्दवने
महाश्मशाने गौरीमुखे त्रिकण्टकविराजिते ...... वैक्रमाब्दे...संवत्सरे...मासे...
शुक्ल / कृष्णपक्षे... तिथौ...वासरे...प्रातः/ सायंकाले.... गोत्र..... शर्मा/
वर्मा/ गुप्तः अहं ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ... देवस्य पूजनं
करिष्ये ।
सकाम संकल्प
यदि सकाम पूजा करनी हो तो कामना- विशेषका नाम
लेना चाहिये - या निम्नलिखित संकल्प करना चाहिये -
....... अहं
श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मम सकुटुम्बस्य सपरिवारस्य
क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थमाधिभौतिकाधिदैविकाध्यात्मिकत्रिविधतापशमनार्थं
धर्मार्थकाममोक्षफलप्राप्त्यर्थं नित्यकल्याणलाभाय भगवत्प्रीत्यर्थं... देवस्य
पूजनं करिष्ये ।
Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित
न्यास
संकल्पके पश्चात् न्यास करे । मन्त्र बोलते हुए
दाहिने हाथसे कोष्ठमें निर्दिष्ट अंगोंका स्पर्श करे।
अङ्गन्यास '
सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्रपात् ।
स भूमि सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥
(बायाँ हाथ )
पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ ( दाहिना
हाथ )
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ (बायाँ
पैर )
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ (दाहिना
पैर
ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ (वाम
जानु)
तस्माद्यज्ञात्सर्वहुतः सम्भृतं `पृषदाज्यम्।
पशूंस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये
॥ (दक्षिण जानु )
तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दा सि जज्ञिरे तस्माद् जुस्तस्मादजायत
॥(वाम कटिभाग)
तस्मादश्वा अजायन्त ये के
चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥
(दक्षिण कटिभाग)
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥
(नाभि)
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥
(हृदय)
ब्राह्मणोऽस्य मुखमासीबाहू राजन्य: कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्या शूद्रो अजायत ॥ (वाम
बाहु)
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत
॥ (दक्षिण बाहु)
नाभ्या आसीदन्तरिक्ष शीर्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २
अकल्पयन् ॥ (कण्ठ)
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
(मुख)
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥
(आँख)
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि
प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः
सन्ति देवाः ॥ (मूर्धा )
पञ्चाङ्गन्यास
अद्भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः
समवर्तताग्रे ।
तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य
देवत्वमाजानमग्रे ॥ (हृदय)
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः
परस्तात् ।
तमेव विदित्वाति मृत्युमेति नान्यः पन्था
विद्यतेऽयनाय || (सिर)
प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा वि जायते ।
तस्य योनिं परि पश्यन्ति धीरास्तस्मिन् ह
तस्थुर्भुवनानि विश्वा ॥ (शिखा)
यो देवेभ्य आतपति यो देवानां पुरोहितः ।
पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥ ( कवचाय हुम्, दोनों कंधोंका
स्पर्श करे )
रुचं ब्राह्मं जनयन्तो देवा अग्रे तदब्रुवन् ।
यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन् वशे
॥ (अस्त्राय फट्, बायीं हथेलीपर ताली
बजाये)
करन्यास
ब्राह्मणोऽस्य मुखमासीबाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्या शूद्रो अजायत || अङ्गुष्ठाभ्यां
नमः । (दोनों अंगूठोंका स्पर्श करे )
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥
तर्जनीभ्यां नमः। (दोनों तर्जनियोंका,,)
नाभ्यां आसीदन्तरिक्ष शीर्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २
अकल्पयन् ॥ मध्यमाभ्यां नमः । (दोनों मध्यमाओंका,,)
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
अनामिकाभ्यां नमः । (दोनों अनामिकाओंका,)
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥
कनिष्ठिकाभ्यां नमः। (दोनों कनिष्ठिकाओंका,,)
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि
प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः
सन्ति देवाः ॥ करतलकरपृष्ठाभ्यां नमः । (दोनों करतल और करपृष्ठोंका स्पर्श करे )
Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित
गणपति और
गौरीकी पूजा
( पूजामें
जो वस्तु विद्यमान न हो उसके लिये 'मनसा परिकल्प्य समर्पयामि' कहे। जैसे, आभूषणके लिये 'आभूषणं मनसा
परिकल्प्य समर्पयामि ।)
हाथमें अक्षत लेकर ध्यान करे-
भगवान् गणेशका ध्यान-
गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम्
।
उमासुतं शोकविनाशकारकं नमामि
विघ्नेश्वरपादपङ्कजम् ॥
भगवती गौरीका ध्यान -
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
श्रीगणेशाम्बिकाभ्यां नमः, ध्यानं
समर्पयामि ।
भगवान् गणेशका आवाहन-
ॐ गणानां त्वा गणपति गुंग हवामहे
प्रियाणां त्वा प्रियपति गुंग हवामहे
निधीनां त्वा निधिपति गुंग हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि
गर्भधम्॥ (यजुर्वेद २३ । १९)
एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशद ।
माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन्
नमस्ते ॥
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि, स्थापयामि, पूजयामि च ।
हाथके अक्षत गणेशजीपर चढ़ा दे । फिर अक्षत लेकर
गणेशजीकी दाहिनी ओर गौरीजीका आवाहन करे ।
भगवती गौरीका आवाहन -
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
(शु० य०
२३ | १८ )
हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥
ॐ भूर्भुवः स्वः गौर्यै नमः, गौरीमावाहयामि, स्थापयामि, पूजयामि च ।
- प्रतिष्ठा
– ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ
समिमं दधातु । विश्वे देवास इह मादयन्तामो३ प्रतिष्ठ ||
( यजुर्वेद
२ | १३)
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः
क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥
गणेशाम्बिके! सुप्रतिष्ठिते वरदे भवेताम् ।
प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां
नमः । (आसनके लिये अक्षत समर्पित करे ।)
पाद्य, अर्घ्य, आचमनीय, स्नानीय, पुनराचमनीय | ॐ देवस्य त्वा सवितुः
प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । (यजु० १ । १०) }
एतानि पाद्यार्थ्याचमनीयस्नानीयपुनराचमनीयानि
समर्पयामि गणेशाम्बिकाभ्यां नमः । ( इतना कहकर जल चढ़ा दे।)
- दुग्धस्नान —
ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे
पयो धाः | पयस्वतीः
प्रदिशः सन्तु मह्यम् ॥
(यजुर्वेद
१८। ३६)
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयःस्नानार्थमर्पितम्
॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पयः स्नानं
समर्पयामि । (दूधसे स्नान कराये ।)
- दधिस्नान
–
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभि नो मुखा करत्प्र ण आयू gung षि तारिषत् ॥
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥
(यजु०
२३ । ३२)
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दधिस्नानं
समर्पयामि । (दधिसे स्नान कराये ) ।
घृतस्नान-
ॐ घृतं
मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमा वह मादयस्व
स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
(यजु०
१७। ८८)
नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ॥
घृतं तुभ्यं प्रदास्यामि स्नानार्थं
प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, घृतस्नानं
समर्पयामि । (घृतसे स्नान कराये ) |
- मधुस्नान
–
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिव रजः । मधु द्यौरस्तु नः
पिता ॥
(यजु०
१३ । २७-२८)
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्
॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मधुस्नानं
समर्पयामि । (मधुसे स्नान कराये ।)
शर्करास्नान —
ॐ अपा gung रसमुद्वयसः gung सूर्ये सन्त gung समाहितम् । अपा gung - रसस्य यो रसस्तं वो
गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय
त्वा जुष्टतमम् ॥ ( यजु० ९ । ३)
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् ।
मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शर्करास्नानं
समर्पयामि । ( शर्करासे स्नान कराये ।)
पञ्चामृतस्नान —
ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
(यजु०
३४ ११)
पञ्चामृतं मयानीतं पयो दधि घृतं मधु ।
शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पञ्चामृतस्नानं
समर्पयामि । (पञ्चामृतसे स्नान कराये ।)
ॐ अgu शुना ते अःgu शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय
रसो अच्युतः ॥ (यजु० २०।२७)
मलयाचलसम्भूतचन्दनेन विनिःसृतम् ।
इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, गन्धोदकस्नानं
समर्पयामि । (गन्धोदकसे स्नान कराये ।)
शुद्धोदकस्नान-
ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः
श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः
पार्जन्याः ॥ (यजु० २४।३)
गङ्गा च यमुना चैव गोदावरी सरस्वती ।
नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शुद्धोदकस्नानं
समर्पयामि । ( शुद्ध जलसे स्नान कराये ।)
आचमन –
शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)
वस्त्र –
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति
जायमानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः ॥ (ऋग्० ३। ८ । ४)
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, वस्त्रं
समर्पयामि । ( वस्त्र समर्पित करे ।)
आचमन – वस्त्रान्ते
आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)
उपवस्त्र —
ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः ।
वासो अग्ने विश्वरूपःgu सं
व्ययस्व विभावसो ॥
( यजु० ११ । ४०)
यस्याभावेन शास्त्रोक्तं
कर्म किञ्चिन्न सिध्यति ।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं (
उपवस्त्राभावे रक्तसूत्रम् समर्पयामि ) । (उपवस्त्र समर्पित करे ।)
आचमन – उपवस्त्रान्ते
आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे )
- यज्ञोपवीत
–
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं
पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं
बलमस्तु तेजः ॥
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि
।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दत्तं गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, यज्ञोपवीतं
समर्पयामि । (यज्ञोपवीत समर्पित करे ।)
आचमन –
यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)
चन्दन –
ॐ त्वां गन्धर्वा - अखनँस्त्वामिन्द्रस्त्वां
बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ॥
(यजु०
१२।९८)
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ! चन्दनं चन्दनं
प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, चन्दनानुलेपनं
समर्पयामि। (चन्दन अर्पित करे ।)
अक्षत —
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत
स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥ (यजु० ३। ५१ )
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ता: सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण
परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान्
समर्पयामि । (अक्षत चढ़ाये ।)
- पुष्पमाला
–
ॐ ओषधीः प्रति मोदध्वं पुष्पवती: प्रसूवरीः ।
अश्वा इव सजित्वरीवरुधः पारयिष्णवः ॥ (यजु० १२। ७७)
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पमालां
समर्पयामि । (पुष्पमाला समर्पित करे ।)
दूर्वा –
ॐ -काण्डात्काण्डात्प्ररोहन्ती परुषः
परुषस्परि । एवा नो
दूर्वे प्र तनु सहस्त्रेण शतेन च ॥
(यजु०
१३ | २०)
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् ।
आनीतांस्तव पूजार्थं गृहाण
गणनायक ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाङ्कुरान्
समर्पयामि । ( दूर्वाङ्कर चढ़ाये ।)
सिन्दूर —
ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः
पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥ (यजु० १७। ९५)
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् ।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सिन्दूरं
समर्पयामि । (सिन्दूर अर्पित करे ।)
अबीर-गुलाल आदि नाना परिमल द्रव्य |
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं
परिबाधमानः | हस्तघ्नो
विश्वा वयुनानि विद्वान् पुमान् पुमा सं परि पातु विश्वतः ॥
( यजु०
२९ । ५१)
अबीरं च गुलालं च हरिद्रादिसमन्वितम् ।
नाना परिमलं द्रव्यं गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि
समर्पयामि। (अबीर आदि चढ़ाये । )
सुगन्धिद्रव्य –
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं
परिबाधमानः | हस्तघ्नो
विश्वा वयुनानि विद्वान् पुमान् पुमा सं परि पातु विश्वतः ॥
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् ।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं
समर्पयामि । ( सुगन्धित द्रव्य अर्पण करे ।)
धूप –
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्
धूर्वति तं धूर्व यं वयं धूर्वामः । देवानामसि वह्नितम सस्नितमं पप्रितमं जुष्टतमं
देवहूतमम् ॥ (यजु० १। ८)
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि
। धूप दिखाये ।)
दीप —
ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो
ज्योतिर्ज्योतिः सूर्यः स्वाहा। अग्निर्वच ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो
ज्योतिर्वर्चः स्वाहा ॥ ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥ (यजु० ३। ९)
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु
ते ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि
। (दीप दिखाये ।)
हस्तप्रक्षालन – ॐ हृषीकेशाय
नमः' कहकर
हाथ धो ले।
- नैवेद्य –
नैवेद्यको प्रोक्षित कर गन्ध- पुष्पसे आच्छादित
करे | तदनन्तर
जलसे चतुष्कोण घेरा लगाकर भगवान्के आगे रखे ।
ॐ नाभ्या आसीदन्तरिक्ष gu शीर्णो द्यौः
समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन् ॥ (यजु० ३१ | १३)
ॐ अमृतोपस्तरणमसि स्वाहा । ॐ प्राणाय
स्वाहा । ॐ अपानाय स्वाहा । ॐ समानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ व्यानाय स्वाहा
। ॐ अमृतापिधानमसि स्वाहा ।
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्यं
निवेदयामि | (नैवेद्य
निवेदित करे ।)
नैवेद्यान्ते आचमनीयं जलं समर्पयामि । (जल
समर्पित करे ।)
ऋतुफल —
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हसः ॥ (यजु० १२। ८९)
इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि
समर्पयामि। (ऋतुफल अर्पित करे । )
फलान्ते आचमनीयं जलं समर्पयामि । (आचमनीय जल
अर्पित करे ।)
उत्तरापोऽशन – उत्तरापोऽशनार्थे गणेशाम्बिकाभ्यां
नमः । (जल दे ।) जलं समर्पयामि ।
करोद्वर्तन —
ॐ अgu शुना ते अः gu शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय
रसो अच्युतः॥ (यजु० २० । २७)
चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम् ।
करोद्वर्तनकं देव गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, करोद्वर्तनकं
चन्दनं समर्पयामि। (मलयचन्दन समर्पित करे ।)
- ताम्बूल
—
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
(यजु०
३१ । १४)
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम्
एलालवंग - पूगीफलसहितं ताम्बूलं समर्पयामि । (इलायची, लौंग-सुपारीके
साथ ताम्बूल अर्पित करे ।)
दक्षिणा –
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक
आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
(यजु०
१३ । ४)
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, कृताया:
पूजायाः साद्गुण्यार्थे
द्रव्यदक्षिणां समर्पयामि। (द्रव्य दक्षिणा समर्पित करे ।)
आरती –
ॐ इद हविः प्रजननं मे अस्तु दशवीर सर्वगण
स्वस्तये । - आत्मसनि
प्रजासनि पशुसनि लोकसन्यभयसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो
अस्मासु धत्त ।।
ॐ आ रात्रि पार्थिव: रजः पितुरप्रायि धामभिः ।
दिवः सदा सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥ (यजु० १९। ४८) (यजु० ३४ ३२)
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, आरार्तिकं
समर्पयामि । कर्पूरकी आरती करे, आरतीके बाद जल गिरा दे | )
पुष्पाञ्जलि –
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्
।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः
सन्ति देवाः ॥
(यजु०
३१ । १६)
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ||
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पाञ्जलिं
समर्पयामि । (पुष्पाञ्जलि अर्पित करे ।)
प्रदक्षिणा –
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । -
तेषा gu सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥
(यजु०
१६ । ६१)
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां
समर्पयामि । ( प्रदक्षिणा करे ।)
- विशेषार्घ्य
–
ताम्रपात्रमें जल, चन्दन, अक्षत, फल, फूल, दूर्वा और दक्षिणा रखकर
अर्घ्यपात्रको हाथमें लेकर निम्नलिखित मन्त्र पढ़े-
रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥
अनेन सफलार्घ्येण वरदोऽस्तु सदा मम ।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, विशेषार्घ्यं
समर्पयामि । (विशेषार्घ्य दे ।)
प्रार्थना —
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय
शुभदाय सुरेश्वराय
।
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय
नमो नमस्ते
॥
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः
नमस्ते रुद्ररूपाय करिरूपाय ते नमः ।
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे
भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥
त्वां विघ्नशत्रुदलनेति च सुन्दरेति
भक्तप्रियेति सुखदेति फलप्रदेति ।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति
तेभ्यो गणेश वरदो भव नित्यमेव ॥
त्वं वैष्णवी शक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत्
त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रार्थनापूर्वकं
नमस्कारान् समर्पयामि। (साष्टाङ्ग नमस्कार करे ।)
गणेशपूजने कर्म यन्यूनमधिकं कृतम् ।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥
अनया पूजया गणेशाम्बिके प्रीयेताम्, न मम । ( ऐसा
कहकर समस्त पूजनकर्म भगवान्को समर्पित कर दे) * तथा पुनः नमस्कार करे ।
* अचल
प्रतिमाका विसर्जन नहीं किया जाता, किंतु आवाहित एवं प्रतिष्ठित देवप्रतिमाओंका
विसर्जन करना चाहिये ।