Vighneshwaray Varday /विघ्नेश्वराय वरदाय-प्रार्थना

 Vighneshwaray Varday 

Vighneshwaray Varday


प्रार्थना :-- 

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय । 

नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ ! नमो नमस्ते ।। 

भक्तार्तिनाशनपराय गणेश्वराय

सर्वेश्वराय शुभदाय सुरेश्वराय ।

विद्याधराय विकटाय च वामनाय

भक्तप्रसन्नवरदाय नमो नमस्ते ।।

 नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः ।

नमस्ते रुद्ररूपाय करिरूपाय ते नमः ।। 

    विश्वरूप-स्वरूपाय नमस्ते ब्रह्मचारिणे ।

    भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ।।

     लम्बोदर ! नमस्तुभ्यं सततं मोदकप्रिय ! 

    निर्विघ्नं कुरु मे देव ! सर्वकार्येषु सर्वदा ।। 

    त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति । 

    विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्योगणेश ! वरदो भव नित्यमेव ।। 

     Vighneshwaray Varday 

    1. गणेश पूजन विधि मंत्र सहित
    2. स्वस्तिवाचनम्  मन्त्र अर्थ सहित
    3. षोडशोपचार पूजन विधि मंत्र
    4. लक्ष्मी मंत्र: धन प्राप्ति के लिए
    5. लक्ष्मी पूजन विधि मंत्र सहित


     Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित 

    Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित


    विशिष्ट पूजा-प्रकरण

    किसी भी यज्ञादि महोत्सवोंपूजा- अनुष्ठानों अथवा नवरात्र - पूजनशिवरात्रिमें शिव-पूजनपार्थिव-पूजनरुद्राभिषेकसत्यनारायण - पूजनदीपावली - पूजन आदि कर्मोंमें प्रारम्भमें स्वस्तिवाचनपुण्याहवाचनगणेश-कलश-नवग्रह तथा रक्षा-विधान आदि कर्म सम्पन्न किये जाते हैंइसके अनन्तर प्रधान- पूजा की जाती है। 

    अतः यहाँ भी वह पूजाविधान दिया गया है। नान्दीमुख श्राद्ध तथा विशेष अनुष्ठानोंके प्रधान देवताका पूजन-विधान यहाँ नहीं दिया गया हैअन्य पद्धतियोंको देखकर करना चाहिये ।

     

    देव-पूजनमें वेद-मन्त्रफिर आगम-मन्त्र और बादमें नाम-मन्त्रका उच्चारण किया जाता है। यहाँ इसी क्रमका आधार लिया गया है । 

    जिन्हें वेद-मन्त्र न आता होउन्हें आगम- मन्त्रोंका प्रयोग करना चाहिये और जो इनका भी शुद्ध उच्चारण न कर सकेंउनको नाममन्त्रोंसे पूजन करना चाहिये ।

    Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित 



    पूजासे पहले पात्रोंको क्रमसे यथास्थान रखकर पूर्व दिशाकी ओर मुख करके आसनपर बैठकर तीन बार आचमन करना चाहिये-

    ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः । आचमनके पश्चात् दाहिने हाथके अँगूठेके मूलभागसे 'ॐ हृषीकेशाय नमःॐ गोविन्दाय नमः' कहकर ओठोंको पोंछकर हाथ धो लेना चाहिये । तत्पश्चात् निम्नलिखित मन्त्रसे पवित्री धारण करे-

    'पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः।

    तस्य ते पवित्रपते पवित्रपूतस्य यत्काम:पुने तच्छकेयम्।

    पवित्री धारण करनेके पश्चात् प्राणायामकरे। इसके बाद बायें हाथमें जल लेकर दाहिने हाथसे अपने ऊपर और पूजा-सामग्रीपर छिड़कना चाहिये –

    ॐ अपवित्रःपवित्रो वा सर्वावस्थां गतोऽपि वा ।

    यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥

    ॐ •पुण्डरीकाक्षः पुनातुॐ पुण्डरीकाक्षः पुनातुॐ पुण्डरीकाक्षः पुनातु ।

    तदनन्तर पात्रमें अष्टदल कमल बनाकर यदि गणेश- अम्बिकाकी  मूर्ति न हो तो सुपारीमें मौली लपेटकर अक्षतपर स्थापित कर देनेके बाद हाथमें अक्षत और पुष्प लेकर स्वस्त्ययन पढ़ना चाहिये ।

    ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥ देवानां भद्रा सुमतिर्ऋजूयतां देवाना रातिरभि नो निवर्तताम् । देवानांऽ सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे । तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्त्रिधम् । अर्यमणं वरुणऽ सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥

    तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः । तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।

    पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह ॥ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा - सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।

    पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥ अदितिर्द्यौ रदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ।। (शु य० २५ । १४-२३)

    द्यौः शान्तिरन्तरिक्ष शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि ।।(शु० य० ३६ । १७)

    यतो यतः समीहसे ततो नो अभयं कुरु । शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥ सुशान्तिर्भवतु ।। (शु य० ३६ । २२)

    ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव॥

    ॐ गणानां त्वा गणपति ग्वँग् हवामहे प्रियाणां त्वा प्रियपति ग्वँग् हवामहे निधीनां त्वा निधीपति ग्वँग् हवामहे वसो मम। आहमजानि गर्भधमा त्वमजासि गर्भधम्॥

    ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन। ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम्॥

    श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमा महेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातृ-पितृ-चरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः ।

    श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमामहेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातृपितृचरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः वास्तुदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । ॐ सिद्धिबुद्धिसहिताय श्रीमन्महागणाधिपतये नमः ।

     

    1. गणेश पूजन विधि मंत्र सहित
    2. स्वस्तिवाचनम्  मन्त्र अर्थ सहित
    3. षोडशोपचार पूजन विधि मंत्र
    4. लक्ष्मी मंत्र: धन प्राप्ति के लिए
    5. लक्ष्मी पूजन विधि मंत्र सहित

    सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।

    लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥

    धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।

    द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥

    विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।

    सङ्ग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥

    शुक्लाम्बरधरं देवं शशिवर्णं देवं चतुर्भुजम् ।

    प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

    अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।

    सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥

    सर्वमङ्गलमाङ्गल्ये! शिवे! सर्वार्थसाधिके।

    शरण्ये त्र्यम्बके! गौरि नारायणि नमोऽस्तु ते ॥

    सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।

    येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥

    तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।

    विद्याबलं देवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥

    लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।

    येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥

    यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।

    तत्र श्रीर्विजयो भूतिध्रुवा नीतिर्मतिर्मम ॥

    अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।

    तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥

    स्मृतेः सकलकल्याणं भाजनं यत्र जायते ।

    पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥

    सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः।

    देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥

    विश्वेशं माधवं दुण्ढिं दण्डपाणिं च भैरवम् ।

    वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥

    वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।

    निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

    गणेशाम्बिकाभ्यां नमः ॥

    हाथमें लिये अक्षत-पुष्पको गणेशाम्बिकापर चढ़ा दे । इसके बाद दाहिने हाथमें जलअक्षत और द्रव्य लेकर संकल्प करे ।

    निष्काम संकल्प

    ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य ब्रह्मणोऽह्नि द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भारतवर्षे आर्यावर्तेकदेशे.... नगरे /ग्रामे / क्षेत्रे (अविमुक्तवाराणसीक्षेत्रे आनन्दवने महाश्मशाने गौरीमुखे त्रिकण्टकविराजिते ...... वैक्रमाब्दे...संवत्सरे...मासे... शुक्ल / कृष्णपक्षे... तिथौ...वासरे...प्रातः/ सायंकाले.... गोत्र..... शर्मा/ वर्मा/ गुप्तः अहं ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ... देवस्य पूजनं करिष्ये ।

    सकाम संकल्प

    यदि सकाम पूजा करनी हो तो कामना- विशेषका नाम लेना चाहिये - या निम्नलिखित संकल्प करना चाहिये -

    ....... अहं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं मम सकुटुम्बस्य सपरिवारस्य क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थमाधिभौतिकाधिदैविकाध्यात्मिकत्रिविधतापशमनार्थं धर्मार्थकाममोक्षफलप्राप्त्यर्थं नित्यकल्याणलाभाय भगवत्प्रीत्यर्थं... देवस्य पूजनं करिष्ये ।

     Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित 

    Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित


    न्यास

     

    संकल्पके पश्चात् न्यास करे । मन्त्र बोलते हुए दाहिने हाथसे कोष्ठमें निर्दिष्ट अंगोंका स्पर्श करे।

    अङ्गन्यास '

    सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्रपात् ।

    स भूमि सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ (बायाँ हाथ )

    पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यम् ।

    उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ ( दाहिना हाथ )

    एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।

    पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ (बायाँ पैर )

    त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः।

    ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ (दाहिना पैर

    ततो विराडजायत विराजो अधि पूरुषः ।

    स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ (वाम जानु)

    तस्माद्यज्ञात्सर्वहुतः सम्भृतं `पृषदाज्यम्।

    पशूंस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ (दक्षिण जानु )

    तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।

    छन्दा सि जज्ञिरे तस्माद् जुस्तस्मादजायत ॥(वाम कटिभाग)

    तस्मादश्वा अजायन्त ये के चोभयादतः ।

    गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥ (दक्षिण कटिभाग)

    तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः ।

    तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ (नाभि)

    यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।

    मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते ॥ (हृदय)

    ब्राह्मणोऽस्य मुखमासीबाहू राजन्य: कृतः ।

    ऊरू तदस्य यद्वैश्यः पद्भ्या शूद्रो अजायत ॥ (वाम बाहु)

    चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

    श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ (दक्षिण बाहु)

    नाभ्या आसीदन्तरिक्ष शीर्णो द्यौः समवर्तत ।

    पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ अकल्पयन् ॥ (कण्ठ)

    यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

    वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ (मुख)

    सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।

    देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ (आँख)

    यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

    ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ (मूर्धा )

     

    पञ्चाङ्गन्यास

    अद्भ्यः सम्भृतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताग्रे ।

    तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवत्वमाजानमग्रे ॥ (हृदय)

    वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ।

    तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय || (सिर) प्रजापतिश्चरति गर्भे अन्तरजायमानो बहुधा वि जायते ।

    तस्य योनिं परि पश्यन्ति धीरास्तस्मिन् ह तस्थुर्भुवनानि विश्वा ॥ (शिखा)

    यो देवेभ्य आतपति यो देवानां पुरोहितः ।

    पूर्वो यो देवेभ्यो जातो नमो रुचाय ब्राह्मये ॥ ( कवचाय हुम्दोनों कंधोंका स्पर्श करे )

    रुचं ब्राह्मं जनयन्तो देवा अग्रे तदब्रुवन् ।

    यस्त्वैवं ब्राह्मणो विद्यात्तस्य देवा असन् वशे ॥ (अस्त्राय फट्बायीं हथेलीपर ताली बजाये)

     

    करन्यास

    ब्राह्मणोऽस्य मुखमासीबाहू राजन्यः कृतः ।

    ऊरू तदस्य यद्वैश्यः पद्भ्या शूद्रो अजायत || अङ्गुष्ठाभ्यां नमः । (दोनों अंगूठोंका स्पर्श करे )

    चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

    श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ तर्जनीभ्यां नमः। (दोनों तर्जनियोंका,,)

    नाभ्यां आसीदन्तरिक्ष शीर्णो द्यौः समवर्तत ।

    पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ अकल्पयन् ॥ मध्यमाभ्यां नमः । (दोनों मध्यमाओंका,,)

    यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

    वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥ अनामिकाभ्यां नमः । (दोनों अनामिकाओंका,)

    सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।

    देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ कनिष्ठिकाभ्यां नमः। (दोनों कनिष्ठिकाओंका,,)

    यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

    ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ करतलकरपृष्ठाभ्यां नमः । (दोनों करतल और करपृष्ठोंका स्पर्श करे )

     Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित 

    गणपति और गौरीकी पूजा

    पूजामें जो वस्तु विद्यमान न हो उसके लिये 'मनसा परिकल्प्य समर्पयामि' कहे। जैसेआभूषणके लिये 'आभूषणं मनसा परिकल्प्य समर्पयामि ।)

    हाथमें अक्षत लेकर ध्यान करे-

    भगवान् गणेशका ध्यान-

    गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम् ।

    उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥

    भगवती गौरीका ध्यान -

    नमो देव्यै महादेव्यै शिवायै सततं नमः ।

    नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥

    श्रीगणेशाम्बिकाभ्यां नमःध्यानं समर्पयामि ।

    भगवान् गणेशका आवाहन-

    ॐ गणानां त्वा गणपति गुंग हवामहे प्रियाणां त्वा प्रियपति गुंग  हवामहे निधीनां त्वा निधिपति गुंग  हवामहे वसो मम । आहमजानि गर्भधमा त्वमजासि गर्भधम्॥ (यजुर्वेद २३ । १९)

     

    एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशद ।

    माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते ॥

    ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमःगणपतिमावाहयामिस्थापयामिपूजयामि च ।

     

    हाथके अक्षत गणेशजीपर चढ़ा दे । फिर अक्षत लेकर गणेशजीकी दाहिनी ओर गौरीजीका आवाहन करे ।

    भगवती गौरीका आवाहन -

    ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।

    ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥

    (शु० य० २३ १८ )

    हेमाद्रितनयां देवीं वरदां शङ्करप्रियाम् ।

    लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥

    ॐ भूर्भुवः स्वः गौर्यै नमःगौरीमावाहयामिस्थापयामिपूजयामि च ।

     

    प्रतिष्ठा – ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु । विश्वे देवास इह मादयन्तामो३ प्रतिष्ठ ||

    यजुर्वेद २ १३)

    अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।

    अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥

    गणेशाम्बिके! सुप्रतिष्ठिते वरदे भवेताम् ।

    प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः । (आसनके लिये अक्षत समर्पित करे ।)

     Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित 

    पाद्यअर्घ्यआचमनीय, स्नानीयपुनराचमनीय | ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । (यजु० १ । १०) }

    एतानि पाद्यार्थ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि गणेशाम्बिकाभ्यां नमः । ( इतना कहकर जल चढ़ा दे।)

    - दुग्धस्नान —

    ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः पयस्वतीः प्रदिशः सन्तु मह्यम् ॥

    (यजुर्वेद १८। ३६)

    कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् ।

    पावनं यज्ञहेतुश्च पयःस्नानार्थमर्पितम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःपयः स्नानं समर्पयामि । (दूधसे स्नान कराये ।)

    दधिस्नान –

    ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयू gung षि तारिषत् ॥

    पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।

    दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥

    (यजु० २३ । ३२)

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःदधिस्नानं समर्पयामि । (दधिसे स्नान कराये ) ।

    घृतस्नान-

     ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥

    (यजु० १७। ८८)

    नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ॥

    घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःघृतस्नानं समर्पयामि । (घृतसे स्नान कराये ) |

    मधुस्नान –

    ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिव रजः । मधु द्यौरस्तु नः पिता ॥

    (यजु० १३ । २७-२८)

    पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु ।

    तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःमधुस्नानं समर्पयामि । (मधुसे स्नान कराये ।)

    शर्करास्नान —

    ॐ अपा gung रसमुद्वयसः gung सूर्ये सन्त gung समाहितम् । अपा gung - रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥ ( यजु० ९ । ३)

    इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् ।

     

    मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःशर्करास्नानं समर्पयामि । ( शर्करासे स्नान कराये ।)

    पञ्चामृतस्नान —

    ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥

    (यजु० ३४ ११)

    पञ्चामृतं मयानीतं पयो दधि घृतं मधु ।

    शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःपञ्चामृतस्नानं समर्पयामि । (पञ्चामृतसे स्नान कराये ।)

     Gauri Ganesh pujan mantra    गणेश पूजन विधि मंत्र सहित 


    गन्धोदकस्नान –

    ॐ अgu शुना ते अःgu शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥ (यजु० २०।२७)

    मलयाचलसम्भूतचन्दनेन विनिःसृतम् ।

    इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःगन्धोदकस्नानं समर्पयामि । (गन्धोदकसे स्नान कराये ।)

    शुद्धोदकस्नान-

    ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥ (यजु० २४।३)

     

     

    गङ्गा च यमुना चैव गोदावरी सरस्वती ।

    नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःशुद्धोदकस्नानं समर्पयामि । ( शुद्ध जलसे स्नान कराये ।)

    आचमन – शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)

    वस्त्र –

    ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो३ मनसा देवयन्तः ॥ (ऋग्० ३। ८ । ४)

    शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।

    देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःवस्त्रं समर्पयामि । ( वस्त्र समर्पित करे ।)

    आचमन – वस्त्रान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)

    उपवस्त्र —

    ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः । वासो अग्ने विश्वरूपःgu सं व्ययस्व विभावसो ॥ यजु० ११ । ४०)

    यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति ।

    उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःउपवस्त्रं ( उपवस्त्राभावे रक्तसूत्रम् समर्पयामि ) । (उपवस्त्र समर्पित करे ।)

     

    आचमन – उपवस्त्रान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे )

    यज्ञोपवीत –

    ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।

    आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥

    यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि ।

    नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।

    उपवीतं मया दत्तं गृहाण परमेश्वर ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःयज्ञोपवीतं समर्पयामि । (यज्ञोपवीत समर्पित करे ।)

    आचमन – यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि । (आचमनके लिये जल दे ।)

    चन्दन –

    ॐ त्वां गन्धर्वा - अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः ।

    त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ॥

    (यजु० १२।९८)

    श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।

    विलेपनं सुरश्रेष्ठ! चन्दनं चन्दनं प्रतिगृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःचन्दनानुलेपनं समर्पयामि। (चन्दन अर्पित करे ।)

    अक्षत —

    ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥ (यजु० ३। ५१ )

    अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ता: सुशोभिताः ।

    मया निवेदिता भक्त्या गृहाण परमेश्वर ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःअक्षतान् समर्पयामि । (अक्षत चढ़ाये ।)

    पुष्पमाला –

    ॐ ओषधीः प्रति मोदध्वं पुष्पवती: प्रसूवरीः । अश्वा इव सजित्वरीवरुधः पारयिष्णवः ॥ (यजु० १२। ७७)

    माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।

    मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःपुष्पमालां समर्पयामि । (पुष्पमाला समर्पित करे ।)

    दूर्वा –

    ॐ -काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥

    (यजु० १३ २०)

    दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् ।

    आनीतांस्तव पूजार्थं गृहाण गणनायक ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःदूर्वाङ्कुरान् समर्पयामि । ( दूर्वाङ्कर चढ़ाये ।)

    सिन्दूर —

    ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥ (यजु० १७। ९५)

     

    सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् ।

    शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःसिन्दूरं समर्पयामि । (सिन्दूर अर्पित करे ।)

     Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित 


    अबीर-गुलाल आदि नाना परिमल द्रव्य  |

    ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा सं परि पातु विश्वतः ॥

    यजु० २९ । ५१)

    अबीरं च गुलालं च हरिद्रादिसमन्वितम् ।

    नाना परिमलं द्रव्यं गृहाण परमेश्वर ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःनानापरिमलद्रव्याणि समर्पयामि। (अबीर आदि चढ़ाये । )

    सुगन्धिद्रव्य –

    ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा सं परि पातु विश्वतः ॥

    दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् ।

    गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःसुगन्धिद्रव्यं समर्पयामि । ( सुगन्धित द्रव्य अर्पण करे ।)

    धूप –

    ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः । देवानामसि वह्नितम सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥ (यजु० १। ८)

    वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः।

    आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःधूपमाघ्रापयामि । धूप दिखाये ।)

    दीप —

    ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा। अग्निर्वच ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा ॥ ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥ (यजु० ३। ९)

    साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।

    दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥

    भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।

    त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःदीपं दर्शयामि । (दीप दिखाये ।)

    हस्तप्रक्षालन – ॐ हृषीकेशाय नमःकहकर हाथ धो ले।

    - नैवेद्य –

    नैवेद्यको प्रोक्षित कर गन्ध- पुष्पसे आच्छादित करे तदनन्तर जलसे चतुष्कोण घेरा लगाकर भगवान्‌के आगे रखे ।

    ॐ नाभ्या आसीदन्तरिक्ष gu शीर्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन् ॥ (यजु० ३१ १३)

    ॐ अमृतोपस्तरणमसि स्वाहा । ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ समानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ अमृतापिधानमसि स्वाहा ।

    शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।

    आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःनैवेद्यं निवेदयामि | (नैवेद्य निवेदित करे ।)

    नैवेद्यान्ते आचमनीयं जलं समर्पयामि । (जल समर्पित करे ।)

    ऋतुफल —

    ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हसः ॥ (यजु० १२। ८९)

    इदं फलं मया देव स्थापितं पुरतस्तव ।

    तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःऋतुफलानि समर्पयामि। (ऋतुफल अर्पित करे । )

    फलान्ते आचमनीयं जलं समर्पयामि । (आचमनीय जल अर्पित करे ।)

    उत्तरापोऽशन – उत्तरापोऽशनार्थे गणेशाम्बिकाभ्यां नमः । (जल दे ।) जलं समर्पयामि ।

      Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित 


    करोद्वर्तन —

    ॐ अgu शुना ते अः gu शुः पृच्यतां परुषा परुः । गन्धस्ते सोममवतु मदाय रसो अच्युतः॥ (यजु० २० । २७)

    चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम् ।

    करोद्वर्तनकं देव गृहाण परमेश्वर ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःकरोद्वर्तनकं चन्दनं समर्पयामि। (मलयचन्दन समर्पित करे ।)

    ताम्बूल —

    ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥

    (यजु० ३१ । १४)

    पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।

    एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःमुखवासार्थम् एलालवंग - पूगीफलसहितं ताम्बूलं समर्पयामि । (इलायचीलौंग-सुपारीके साथ ताम्बूल अर्पित करे ।)

    दक्षिणा –

    ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥

    (यजु० १३ । ४)

    हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।

    अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःकृताया: पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि। (द्रव्य दक्षिणा समर्पित करे ।)

     

    Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित

    आरती –

    ॐ इद हविः प्रजननं मे अस्तु दशवीर सर्वगण स्वस्तये । - आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ।।

    ॐ आ रात्रि पार्थिव: रजः पितुरप्रायि धामभिः । दिवः सदा सि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥ (यजु० १९। ४८) (यजु० ३४ ३२)

    कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।

    आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःआरार्तिकं समर्पयामि । कर्पूरकी आरती करेआरतीके बाद जल गिरा दे | )

     

    पुष्पाञ्जलि –

    ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।

    ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

    (यजु० ३१ । १६)

    नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च ।

    पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ||

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःपुष्पाञ्जलिं समर्पयामि । (पुष्पाञ्जलि अर्पित करे ।)

      Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित 


    प्रदक्षिणा –

    ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । -

    तेषा gu सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥

    (यजु० १६ । ६१)

    यानि कानि च पापानि जन्मान्तरकृतानि च ।

    तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःप्रदक्षिणां समर्पयामि । ( प्रदक्षिणा करे ।)

     

    विशेषार्घ्य –

    ताम्रपात्रमें जलचन्दनअक्षतफलफूलदूर्वा और दक्षिणा रखकर अर्घ्यपात्रको हाथमें लेकर निम्नलिखित मन्त्र पढ़े-

    रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक ।

    भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥

    द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।

    वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥

    अनेन सफलार्घ्येण वरदोऽस्तु सदा मम ।

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःविशेषार्घ्यं समर्पयामि । (विशेषार्घ्य दे ।)

     Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित 

    प्रार्थना —

    विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।

    नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥

    भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ।

    विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥

    नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः

    नमस्ते रुद्ररूपाय करिरूपाय ते नमः ।

    विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे

    भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥

    त्वां विघ्नशत्रुदलनेति च सुन्दरेति

    भक्तप्रियेति सुखदेति फलप्रदेति ।

    विद्याप्रदेत्यघहरेति च ये स्तुवन्ति

    तेभ्यो गणेश वरदो भव नित्यमेव ॥

    त्वं वैष्णवी शक्तिरनन्तवीर्या

    विश्वस्य बीजं परमासि माया ।

    सम्मोहितं देवि समस्तमेतत्

    त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥

    ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमःप्रार्थनापूर्वकं नमस्कारान् समर्पयामि। (साष्टाङ्ग नमस्कार करे ।)

     

    गणेशपूजने कर्म यन्यूनमधिकं कृतम् ।

    तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥

    अनया पूजया गणेशाम्बिके प्रीयेताम्न मम । ( ऐसा कहकर समस्त पूजनकर्म भगवान्‌को समर्पित कर दे) * तथा पुनः नमस्कार करे ।

     

    अचल प्रतिमाका विसर्जन नहीं किया जाताकिंतु आवाहित एवं प्रतिष्ठित देवप्रतिमाओंका विसर्जन करना चाहिये ।

     Gauri Ganesh pujan mantra गणेश पूजन विधि मंत्र सहित 


    गणेशपूजने कर्म यन्यूनमधिकं कृतम् । 

    तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ।।

    अनया पूजया गणेशाम्बिके प्रीयेतां न मम ।। 

    0/Post a Comment/Comments

    आपको यह जानकारी कैसी लगी हमें जरूर बताएं ? आपकी टिप्पणियों से हमें प्रोत्साहन मिलता है |

    Stay Conneted

    (1) Facebook Page          (2) YouTube Channel        (3) Twitter Account   (4) Instagram Account

     

     



    Hot Widget

     

    ( श्री राम देशिक प्रशिक्षण केंद्र )

    भागवत कथा सीखने के लिए अभी आवेदन करें-


    close